This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'मारुतिसंयमो' नाम नवमः सर्गः- २५३
 
किंचित् । पूर्ववण्णत्वम् । प्रणिजानीहि अवगच्छ । सत्यपि दोषे न हन्यन्ते दूता
इति । जानातेः शेषधातोरुपदेशावस्थायां अकखाद्यपान्तत्वात् । '२२३२ । शेषे
विभाषा - ।८।४।१८। इत्यादिना णत्वम् ॥
७७४ - प्राणयन्तर्मरिं प्रोचे
 
राक्षसेन्द्रो विभीषणम् ॥
'प्राणिणिपुर् न पापो ऽयं,
 
यो Sभाङ्क्षीत् प्रमदा-वनम् ॥ १०१ ॥
प्राणयन्तमित्यादि – अरिं कपिं यः प्राणयति जीवयति तं प्राणयन्तं विभी-
पणम् । ११४३ श्वस प्राणने ।' '११४४॥ अन च' इत्यस्य रूपम् । ८२४७८ ।
अनितेः ।८।४।१९।' इति णत्वम् । प्रोचे राजसैन्द्रः । न प्राणिणिषुः न जीवितु-
मिच्छुरयं पापः । '२६०६। उन साभ्यासस ।८।४।२१॥ इति यत्वं योरपि ।
योSभाङ्क्षीत् भन्नवान् प्रमदावनम् । हलन्तलक्षणा वृद्धिः ॥
७७५ - प्राघानिषत रक्षांसि येना ssतानि वने मम ॥
 
-
 
न प्रहण्मः कथं पापं वद पूर्वाऽपकारिणम् ॥१०२॥
प्राधानिषतेत्यादि - मम आप्तानि अक्षप्रभृतीनि येन वने प्राधानिषत
मारितानि । कर्मणि लुङ् । चिवदि । '३५८ । हो हन्तेः ।७।३।५४।' इति
घत्वम् । तपरपरिच्छिन्नाकारपूर्वस्य नकारस्य 'हन्तेरत्पूर्वस्य' इति गत्वं न भवति ।
तं पूर्वापकारिणं पापं कथं न ग्रहण्मः भारयाम इति वद कथय । '२४२९॥
मोर्वा ।८।४॥२३।' इति णत्वम् ॥
 
७७६–वेश्माऽन्तर्-हणनं कोपान् मम शत्रोः करिष्यतः ॥
 
मा कार्षीरि॑ऽन्तयणं, प्रयाणा॒ऽर्हम॑वेह्य॑मु॒म् ॥ १०३ ॥
वेश्मेत्यादि
– शत्रोर्वेश्मान्तः गृहमध्य एव हननं कोपान्मम करिष्यतः ।
* ३२९४ । अन्तर देशे ।८।४।२४॥ इति दकारस्य णत्वम् । हननस्याभावरूपस्यादे-
शत्वात् । अन्तरयणमन्तरायणं विघातं मा कार्षीः । '३२९५। अयनं च ।८।४॥२५।
इति णत्वम् । प्रयाणा दीर्घप्रस्थानार्हममुमवेहि अवगच्छ । '२८३५॥ कृत्यचः
।८।४॥२९॥ इति णत्वम् । अच उत्तरस्य नकारस्य कृत्स्थत्वात् ॥
 
७७७ – प्रहीण जीवितं कुर्युर् ये न शत्रुमुप॑स्थितम् ॥
 
-
 
न्याय्याया अपि ते लक्ष्म्याः कुर्वन्त्या॑शु प्रहापणम् १०४
प्रहीणेत्यादि – शत्रुभुपस्थितं महीणजीवितं ये न कुर्युः । जहातेः '३०१९४
ओदितश्च ।८।२।४५॥ इति निष्ठादेशनकारस्य पूर्ववण्णत्वम् । ते न्याय्याया अपि
कुलक्रमादागताया अपि लक्ष्म्याः प्रहापणं त्याजनं आशु कुर्वन्ति । '२८३६ । र्वि-
भाषा ।८।४।३०।' इति णत्वम् ॥
 
भ० का० २२