2023-02-15 17:22:28 by ambuda-bot
This page has not been fully proofread.
२५२ भट्टि- काव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे चतुर्थी वर्गः,
'१०५२। वाहनमाहितान् ।८।४।१८।' इति णत्वम् । रोपस्य तत्राधीयमानत्वात् ।
पति रुधिरपायिणां राक्षसानाम् । १०५३। पानं देशे ।८।४।१९।' इति णत्वम् ॥
७६९ - सुरा-पाण- परिक्षीवं रिपु-दर्प-हरोदयम् ॥
पर स्त्री वाहिनं प्रापुः साऽऽविष्कारं सुरा-पिणः ९६
सुरेत्यादि—सुरापाणात्परिक्षीवं मत्तं रावणम् । '१०५४ वा भाव-करण-
योः ।८॥४।१०।' इति णत्वम् । रिपुदर्पहर उदयो वृद्धिर्यस्य तम् । परस्त्रियं वाह-
यितुमुपभोक्तुं शीलं यस्य तं परस्त्रीवाहिनम् । '१०५५ । प्रातिपदिकान्त - 1८।१४ ।
११ । ' इति णत्वाभावः पाक्षिकः । प्रापुः सुष्टु निकटीकृताः । साविष्काराः साहं-
काराः । सुरापिणः सुरापैर्युक्ताः । सुरां पिबन्तीति '२९२२ । गापोष्टक् ।३।२।८॥
ते येषां सन्तीति मत्वर्थीयः । '३०७। एकाजुत्तरपदे णः ।८।४।१२।' इति णत्वम् ।
उत्तरस्य प्रातिपदिकान्तस्यैका स्वात्
७७० - संघर्ष योगिणः पादौ प्रणेमुस् त्रिदश-द्विपः ॥
M
-
प्रहिण्वन्तो हनूमन्तं प्रमीणन्तं द्विपन्-मतीः ॥ ९७ ॥
समित्यादि – संघर्षयोगिणः स्पर्धायोगिनः । '१०५६ । कुमति च ।८।४।१३।
इति णत्वम् । ते अन्योन्याभिभवेच्छया त्रिदशद्विषो रावणस्य पादौ प्रणेमुः ।
'२२८७), उपसर्गादसमासेऽपि - ।८।४।१४।' इति णत्वम् । हनूमन्तं प्रहिण्वन्तः
ढौकयन्तः । द्विषन्मतीः शत्रुबुद्धी: प्रमीणन्तं अभिभवन्तम् । '१५७१। मीञ्
हिंसायाम् ।' त्रैयादिकः । '२५३० । हिनु मीना ।८।१४।१५।' इति णत्वम् ॥
७७१ - 'प्रवपाणि शिरो भूमौ वानरस्य वनच्छिदः ॥'
"
आमन्त्रयत संक्रुद्धः समितिं रक्षसां पतिः ॥ १८ ॥
प्रवपाणीत्यादि - अस्य वानरस्य वनच्छिदः शिरो भूमौ प्रवपाणि छित्त्वा
पातयामि । '२२३१॥ आनि लोट् ।८।४।१६।' इति णत्वम् । वपिरत्र पातने
वर्तते । संक्रुद्धः रक्षसां पतिः स्वामी समिति समूहं आमन्त्रयत भाषितवान् ॥
७७२ - प्रण्यगादीत् प्रणिघ्नन्तं घनः प्रणिनदन्निव ॥
x
ततः प्रणिहितः स्वाऽर्थे राक्षसेन्द्रं विभीषणः ॥ ९९ ॥
प्रण्यगादीदित्यादि — तत उत्तरकालं विभीषणो राक्षसेन्द्रं प्रणिघ्नन्तं
हन्तुमारभमाणं प्रण्यगादीत् वक्तुं प्रवृत्तः । घन इव प्रणिनदन् गर्जन् । स्वार्थे ।
राक्षसेन्द्रस्य प्रणिहितोऽवहितमनाः । सर्वत्र '२२८५) नेर्गद-1८।४।१७।'
इति णत्वम् ॥
७७३–प्रणिशाम्य दश-ग्रीव !, प्रणियातुर्मलं रुपम् ॥
प्रणिजानीहि, हन्यन्ते दूता दोषे न सत्यपि.' ॥१०॥
. प्रणिशाम्येत्यादि — हे दशग्रीव ! प्रणिशाम्य रोषं त्यज । लोटि श्यनि
रूपम् । '२५१९ । शमामष्टानाम्- ।७।२।७४।' इति दीर्घः । रुषं प्रणियातुमलं न