This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'मारुतिसंयमो' नाम नवमः सर्गः- २५१
ज्योः परस्य लिटि षत्वप्रतिषेधः । पूर्वस्य तु ' २२७१ । 'सदिरप्रतेः ।८।३।६६॥
इति भवत्येव । विषहत इति न प्रतिषेधः । तत्र सोइरूपस्य ग्रहणात् ॥
इति मूर्धन्याधिकारः ॥
 
इतः प्रभृति णत्वमधिकृत्याह-
७६५ - मुष्णन्तमि॑िव तेजांसि विस्तीर्णोरस्-स्थलं पुरः ।
 
उपसेदुर्दश-ग्रीवं गृहीत्वा राक्षसाः कपिम् ॥ १२ ॥
मुप्णन्तमित्यादि- राक्षसाः पुरः कपिमादाय दशग्रीवमासेदुः ढौकित-
चन्तः । नतु दर्शनगोचरं गताः । अप्रभातत्वात् । कीदृशम् । तेजांसि मुष्णन्तं
खण्डयन्तमिव विस्तीर्णोरःस्थलं विस्तृतवक्षसम् । तत्र '२३५ । र-षाभ्यां नो णः
-।८।४।१।' इति णत्वम् ॥
 
७६६ - बहुधा भिन्न- मर्माणो भीमाः खरणाऽऽदयः ॥
 
-
 
-
 
अग्रे-वर्ण वर्तमाने प्रतीच्यां चन्द्र मण्डले ॥ ९३ ॥
वहुघेत्यादि - वानरद्विषो राक्षसा ऊचुरिति वक्ष्यमाणेन संबन्धः । कीदृशाः
किमूचुरित्याह – बहुधा भिन्नमर्माण इति । यानि कालान्तरे प्राणहराणि मर्माणि
तानि बहुधा भिन्नानि येषामिति बहुव्रीहिः । अपवर्गसमुदायस्य व्यवधानान्
'१९७॥ अट्-कु-प्वाङ्–।८।४।२। इत्यादिना णत्वम् । खरणसादयः खरस्येव ।
नासिका यस्येति । '८५६ । अञ् नासिकायाः ।५।४।११८।' इत्यञ् नसादेशश्च ।
'८५७ । पूर्वपदात्संज्ञायाम् ।५।४।११८॥ इति णत्वम् । खरणसादयो राक्षसाः
वनस्याग्रे अग्रेवणम् । राजदन्तादित्वात्परनिपातः । १०३९। वनं - पुरंगा - ।८।४।-
४।' इति णत्वम् । प्रतीच्यां दिशि यद्वनं तस्य वनस्याग्रे उपरि वर्तमाने चन्द्रम-
ण्डले प्रभातसंध्यायामित्यर्थः ॥
 
७६७ - निर्वणं कृतमु॑द्यानम॑नेना ऽऽम्रवणाऽऽदिभिः ॥
 
देवदारु -
वम रि॑ित्यूचुर् वानर-द्विषः ॥ ९४ ॥
निर्वणमित्यादि - उद्यानं संनिवेशविशेषः निर्वणं वृक्षरहितं अनेन कपिना
कृतम् । आम्रवणादिमिरुपलक्षितम् । उभयत्रापि १०५०। प्रनिरन्तः ।८।४॥५॥
इति णत्वम् । देवदारुवनामिश्रः '१०५१॥ विभाषौषधि ।८।४।६॥ इत्यादिना
णत्वं न भवति । 'यक्षर-त्र्यक्षरेभ्य इति वक्तव्यम्' इति वचनात् । इत्येवमूचुः ॥
 
७६८ - उपास्थिषत संप्रीताः पूर्वाह्ने रोष-वाहणम् ॥
 
राक्षसाः कपिर्मादाय पतिं रुधिर पायिणाम् ॥ १५ ॥
उपेत्यादि — ते राक्षसाः पतिमुपास्थिषत उपागताः । दृष्टिपथं गता इत्यर्थः ।
' उपादेवपूजा-' इत्यादिना संगतिकरणे तङ् । '२३८९ । स्था-वोरिच । १।२।१७।
संप्रीता: हृष्टाः तेषामनुज्ञातप्रवेशस्वात् । पूर्वाह्न प्रत्यूषसि । १७९१ । अह्नो-
उदन्तात् ।८।४।७।' इति णत्वम् । रोषवाहणं कपिमादाय । रोषस्यासनीकृतम् ।