This page has not been fully proofread.

२५० भट्टि काव्ये -- द्वितीयेऽधिकार
काण्डे लक्षण रूपे चतुर्थी वर्गः,
 
-
 
विलोचनेत्यादि — विलोचनाम्बु अश्रु मुञ्चन्तीं विक्षिपन्तीम् । हृदयस्य
शोकाग्निसंतप्तस्य परिसेसिचाम् भृशं निर्वाणमिव कुर्वाणामैक्षतेति पूर्वेण संबन्धः ।
सिचेर्वङन्तात् स्त्रीलिङ्गे भावे अकारप्रत्ययः । '२२७०१ उपसर्गात् ।८।३।६५।
इत्यादिना अभ्यासव्यत्रायेऽपि प्राप्तस्य पत्वस्य '२६४० । सिचोय ।८।३।०
११२। इति प्रतिषेधः । उत्तमतां पतिव्रतां पतिव्रतात्वात् ॥
 
७६१ दृष्ट्वा ताम॑भनम् वृक्षान् द्विषो झन् परिसेधतः ॥
 
परितस् तान् विचिक्षेप क्रुद्धः स्वयमि॑वा sनिलः ८८
हवेत्यादि — तां दृष्ट्वा वृक्षानभनक् चूर्णितवान् । द्विपः शत्रून् परिसेधतः
आगच्छतः झन् हिंसन् । पूर्ववत्प्राप्तस्य '२२७८ । सेघर्गतौ ।८।३।११३॥ इति
प्रतिषेधः । परितश्च समन्तादुविचिक्षेप उन्मूलितवान् । लिटः संयोगादित्वाद-
कित्त्वे गुणः । क्रुद्धः स्वयमिव साक्षादिवानिलः ॥
 
७६२ - अ - प्रतिस्तव्ध - विक्रान्तम॑-निस्तव्धो महा॒ऽऽहवे, ॥
विसोढवन्तम॑स्त्राणि व्यतस्तम्भद् घन-ध्वनिः ॥ ८९ ॥
अप्रतीत्यादि – वनध्वनिर्मेघनाद : अनिस्तब्धोऽनभिभूतः अप्रतिस्तव्धवि.
क्रान्तं अनभिभूतविक्रमं कपिम् । '२२७२ । स्तन्भेः ।८।३।६७ ।' इति प्राप्तस्य
षत्वस्य '३०२७। प्रतिस्तब्ध - निस्तब्धौ च ।८।३।११४ । इति प्रतिषेधनिपातनम् ।
अस्त्राणि महाहवे विसोढवन्तं '२३५८ । सोढः ।८।३॥१५।' इति प्रतिषेधः ।
व्यतस्तम्भत्, निष्पादितवान् । एवं नयन्तोऽवदन्निति योज्यम् । स्तम्भेर्ण्यन्तस्य
'२५८०। स्तम्भु-सिवु-सहां चङि ।८।३।११६।' इति पत्वप्रतिषेधः ॥
७६३ - ते विज्ञाया ऽभिसोप्यन्तं रक्तै रक्षांसि स-व्यथाः ॥
 
अन्यैर॑ण्या॑यतं नेहुर् वरत्रा-शृङ्खऽऽदिभिः ॥ ९० ॥
त इत्यादि - ते राक्षसाः ये मारुति नेण्यन्तः । रक्तैः रक्षांसि विसोप्यन्तं
अभिषेक्ष्यन्तं कपिम् । '२५२४ । सुनोतेः स-सनोः ।८।३।११७ । इति [ न ]
षत्वम् । यद्याकृष्यमाणो न नीयेत अवश्यं राक्षसान् रक्कैः सोप्यतीति विज्ञाय
सव्यथाः सभयाः सन्तः अन्यैरपि वस्त्राशृङ्खलादिभिरायतं दीर्घं नेहुः बध्नन्ति
स्म । '१२४१॥ गह बन्धने' इत्यस्य लिटि रूपम् ॥
 
७६४ – विषसादे॑न्द्रजिद् वुवा वन्धे वन्धाऽन्तरक्रियाम् ॥
दिव्य-वन्धो विषहते ना ऽपरं बन्धनं यतः ॥ ९१ ॥
इति षत्वाधिकारः ।
 
विषसादेत्यादि — बन्धे दिव्ये बन्धान्तरक्रियां बन्धनविशेषकरणं बुद्धा
इन्द्रजित् विषसाद विषादमुपगतः । नियतं दिव्यबन्धं मुक्तवानिति । यतो
दिम्पबन्धो नापरं स्वयं बन्धनं विषहते । अतो विषसादेति योज्यम् । सदिसि-