This page has not been fully proofread.

तथा लक्ष्य रूपे कथानके 'मारुतिसंयमो' नाम नवमः सर्गः-
- २४९
 
'३०८४। कपिष्ठलो गोत्रे ।८।३।९११' इति साधुः । तत्तुल्यतेजसां द्विजातीनां वृत्ते
चरिते स्थितां मैथिलीं [ रात्रौ ] ऐक्षत ।
 
कीदृशीमित्याह -
 
७५७ - सर्व - नारी- गुणैः प्रष्ठां विष्टर-स्थां गवि-ष्ठिराम् ॥
 
-
 
शयानां कुष्ठले तारां दिवि ष्ठामिव निर्मलाम् ॥८४॥
सर्वेत्यादि — यावन्तो नारीगुणाः तैः ग्रष्टां अग्रगामिनीम् । १२१९७३ प्रष्ठो-
ग्रगामिनि ।८।३॥१२।' इति साधुः । विष्टरस्थामासनस्थाम् । '३२३३॥ वृक्षास-
नयोर्विष्टरः ।८।३।९३।' इति साधुः । गविष्ठिरां वाचि स्थिराम् । १९६७। गवि-
युधिभ्याम्-।८।३।९५।' इति षत्वम् । अस्मादेव वचनात् सप्तम्या अलुक् ।
कुष्ठले शयानां कोः स्थलै भूतले शुद्धे । '३०९५ । मिकु-शमि ।८।३।९६।'
इत्यादीना पत्वम् । दिविष्टां दिवि तिष्ठतीति '२९१६ । सुपि स्थः ।३।२।१४॥ इति
कः । '९७२। तत्पुरुषे कृति बहुलम् ।६।३।१४।' इति सप्तम्या अलुक् । गगनस्थां
तारामिव निर्मलाम् । '२९१८ । अम्बाम्ब - ।८।३।९७।' इत्यादिना पत्वम् ॥
७५८ - सु-पानीं सर्व-तेजस्सु तन्वीं ज्योतिष्टमां शुभाम् ॥
नि॒िष्टपन्तीमि॑िवा ऽऽत्मानं ज्योतिःसात् कुर्वतीं वनम् ८५
सुपाम्नीमित्यादि – शोभनं साम यस्या इति विगृह्य '४६२ । अन उपधा-
लोपिनोऽन्यतरस्याम् ।४।१।२८।' इति ङीप् । '१०२२। सुपामादिषु च ।८।३१-
९८ ' इति षत्वम् । सुष्टु प्रियंवदामित्यर्थः । तन्वीं कृशाम् । शुभां कल्याणीम् ।
सर्वतेजस्सु ज्योतिष्टमां अतिशयेन ज्योतिष्मतीम् । १३२५ । ह्रस्वात्तादौ तद्धिते
।८।३।१०१।' इति षत्वम् । एवं च कृत्वा निष्टपन्तीमिवात्मानं सकृज्वलयन्ती-
मिवात्मानम् । '२४०३। निसस्तपतावनासेवने ।८।३।१०२ ।' इति षत्वम् । वनं
ज्योतिःसात्कुर्वतीं अज्योतिर्ज्योतिः कुर्वाणाम् । कार्येन दीपवतीमित्यर्थः ।
कार्ये सातिप्रत्ययः । तत्र '४३४ । नुम् - विसर्जनीय ।८।३।५८।' इत्यादिना
प्राप्तस्य षत्वस्य '२१२३ । सात्-पदाद्योः ।८।३।१११।' इति प्रतिषेधः । युष्मदि-
त्यादि नोदाहृतं छान्दसत्वात् ॥
 
७५९ - मधुसाद् भूत किञ्जलक-
पिञ्जर-भ्रमराऽऽकुलाम् ॥
 
उल्लसत्- कुसुमां पुण्यां हेम रत्न लतामिव ॥ ८६ ॥
मध्वित्यादि-मधुसाद्भूतकिअल्कं कार्येन मधुवामापनं यत्किअल्कं
पुष्पकेसरं तन्मधुसाद्भूतकिअल्कम् । '२१२ । आदेश-प्रत्यययोः ।८।३।५९॥ इति
प्राप्तस्य पूर्ववत्प्रतिषेधः । तेन पिञ्जराः पिङ्गलाः ये भ्रमराः तैराकुलाम् । उल्लस-
कुसुमां चलत्पुष्पाम् हेमरललतामिव । यथा हेमरत्नमय कल्पतरुलतां पुण्यां
पवित्रां तद्वत्तमपीत्यर्थः ॥
 
७६० - विलोचनाऽम्बु मुञ्चन्त कुर्वाणां परि-सेसिचाम् ॥
हृदयस्ये॑व शोकऽग्नि-संतष्ठस्यत्तम व्रताम् ॥ ८७ ॥