2023-02-15 17:22:27 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके 'मारुतिसंयमो' नाम नवमः सगः-
J
२४७
विध्यन्देत्यादि – विष्यमारुधिरः रक्तः कपिः परिघेणाहन् दाडि
तवान् । द्विषः शत्रून् । रक्तविस्यन्दुपाटलान् रक्तस्रुतिलोहितान् । '२३४९१ । अनु-
वि-पर्यभि-तिभ्यः स्यन्दतेः- ।८।३।७२।' इति विभाषा पत्वं रक्तस्याप्राणित्वात् ।
विष्कन्तॄन् । विविधं स्कन्तुं गन्तुं शीलमेषामिति तृन् । अविस्कन्ता कपिः अग-
मनशीलः स्थानशील इत्यर्थः । '२३९८ । वेः स्कन्देरनिष्टायाम् ।८।३।७३।' इति
विभाषा षत्वम् ॥
·७४८–मेघ-नादः परिस्कन्दन् परिष्कन्दन्तमश्वरम् ॥
अवनार्दपरिस्कन्दं ब्रह्म-पाशेन विस्फुरन् ॥ ७५ ॥
मेघनाद इत्यादि – मेघनाद इन्द्रजित परिस्कन्दन् परितो भ्रमन् । परि-
कन्दन्तं परिभ्रमन्तमरिं कपिं ब्रह्मपाशेन ब्रह्मणा दत्तेन पाशेन शीघ्रमबझात्
बद्ध्वान् । लिङि श्नाप्रत्यये रूपम् । '२३९९। परेश्च ।८।३।७४ ।' इति वा षत्वम् ।
अपरिस्कन्दं अप्राच्यभरतत्वात् । तेन 'परिस्कन्दः प्राच्यभरतेषु' इति निपात
नम् । विस्फुरन् द्वेषाढुद्गच्छन्नित्यर्थः । '२५३७॥ स्फुरति स्फुलत्योः- ।८।३१७६११
इति विभाषा षत्वम् ॥
७४९ - विस्फुलद्भिर् गृहीतो ऽसौ निष्फुल: पुरुषऽशनैः ॥
विष्कम्भितुं समर्थो ऽपि नाऽचलद् ब्रह्म-गौरवात्. ७६
विस्फुलद्भिरित्यादि — असौ कपिः पुरुषाशनैः राक्षसैः विस्फुलद्भिः हर्पा-
चलद्भिगृहीतः । निष्फुल: सतेजाः । निष्फुलति दीप्यतीति पचाद्यच् । पूर्ववद्वि-
भाषा षत्वम् । विष्कम्भितुं व्यापारितुं समर्थोऽपि ब्रह्मगौरवान्नाचलत् न चलितः ।
मा भून्मोघो ब्राह्मः पाश इति । '२५५६। वेः स्कनातेः- ।८।३।७७॥ इति षत्वम् ।
७५० - कृषीढं भर्तुरानन्दं, मा न प्रोढुं द्रुतं वियत् ॥
-
वानरं नेतुमित्युच्चैरिन्द्र - जित् प्रावदत् स्वकान् ॥७७॥
कृषीद्वमित्यादि — भर्तुः रावणस्य आनन्दं कृषीङ्कं कुरुध्वम् । लिङि रूपम् ।
अतो वानरं द्रुतं नेतुं वियदाकाशं मा न प्रोढुं मा नोत्पतिष्ट । माडि लुङ् ।
'२२४७। इणः षीध्वम्- । ८।३।७७१' इति धकारस्य मूर्धन्यढकारः । इत्येवमुच्चे-
रिन्द्रजित् स्वकान् भृत्यान् प्रावदत् । वदेर्लङि रूपम् ॥
७५१ - 'गतम॑ङ्गलि - षङ्गं त्वां भीरु ष्ठानार्दिहा ऽऽगतम् ॥
खादिष्याम' इति प्रोचुर् नयन्तो मारुतिं द्विषः ॥७८॥
गतमित्यादि — अङ्गुलीनां सङ्गः अङ्गुलिषङ्गः । तं गतं प्राप्तं हस्तप्राप्तमि-
त्यर्थः । '१०१९। समासेऽङ्गुले सङ्गः ।८।३।८०।' इति षत्वम् । भीरोः कातरस्य
यत् स्थानं तस्माद्भीरुष्टानादिहागतम् । '१०२०। भीरो: स्थानम् । ८।३॥८१।
इति षत्वम् । खादिष्याम इति प्रोचुः । द्विषो राक्षसा मारुतिं नयन्तो नेष्यन्तः ।
वर्तमानसामीप्ये भविष्यति लट् ॥
.