This page has not been fully proofread.

२४४ भट्टि काव्ये – द्वितीयेऽधिकार काण्डे लक्षण रूपे चतुर्थी वर्गः,
युग्मम् ६३-६४
 
७३६ - द्विष कुर्वतां चतुष- कुर्वन्न॑भिघातं नगैर् द्विपाम् ॥
 
वहिष्- करिष्यन् संग्रामाद् रिपून् ज्वलन-पिङ्गलः ६३
द्विष्कुवैतामित्यादि - असौ कपिराटीदिति वक्ष्यमाणेन संवन्धः । कीदृशः ।
द्विष्कुर्वतां द्वौ वारावभिघातं कुर्वतां द्विषां चतुष्कुर्वन् चतुरो वारान् नगवृक्षर-
भिघातं कुर्वन् । '१५७ । द्वित्रिश्चतुरिति कृत्वोऽर्थ १८१३१४३।' इति विसर्जनी-
यस्य वा घत्वम् । अरीन् संग्रामाद्वहिष्करिष्यन् अपनेष्यामीति । १५८। इसुसोः
सामर्थ्ये ।८।३।५४।' इति विसर्जनीयस्य पत्वं पक्षे । सामर्थ्य चात्र व्यपेक्षा,
नैकार्थीभावः । बहिष्करिष्यन्निति द्वयोः परस्परव्यपेक्षत्वात् ॥
 
७३७–ज्योतिप्-कुर्वन्नि॑िर्वैको ऽसावटीत् संख्ये परार्ध्य-वत् ॥
तम॑ना॒युष्करं प्राप शऋ- शत्रुर् धनुष्करः ॥ ६४ ॥
ज्योतिरित्यादि – एकोऽपि ज्वलनपिङ्गलः ज्योतिष्कुर्वन्निव अग्निं दीपय -
नित्र । पूर्ववत्पक्षे विसर्जनीयस्य षः । परार्थ्यवत् दिव्य इव । परार्धो धुलोकः ।
ब्रह्माण्डसंबन्धिन ऊर्ध्वभागस्योत्कृष्टत्वात् । तत्र भव इति १३७५२ परावराध-
म - । ४ । ३।५।' इति यत् । संख्ये संग्रामे आटीत् परिचक्राम '२२६६ । इट ईटि
८।२।२८।' इति सिचो लोपः । तं वानरमनायुष्करं प्राणापहारिणं शक्रशत्रुरिन्द्रजित्
आप प्राप्तवान् । धनुष्करः धनुः करे यस्येति । '१६९ । नित्यं समासे- ।८।३।४५ । '
इत्यादिना षत्वम् ॥
 
७३८ - अस्य॒न्न॑रु
करान् बाणान् ज्योतिष-कर-सम-द्युतिः ॥
यशस्-करो- यशस्- कामं कपिं वाणैरताडयत् ॥६५॥
अस्यन्नित्यादि – बाणानरुष्करान् व्रणजनकान् । ८ २९३५ । दिवा- विभा-
।३॥२।२१।' इत्यादिना टः । अस्यन् क्षिप्यन् । ज्योतिष्करसमद्युतिः ज्योतिष्कर-
णशील: आदित्यः । '२९३४ । कृजो हेतु - । ३।२।२०।' इत्यादिना टः । तेन तुल्य
इत्यर्थः । पूर्ववत् पत्त्रम् । यशस्करो यशोजननशीलः । इन्द्रजित् यशस्कामं य-
शसि कामोऽस्येति तं कपिं बाणैरवाकिरत् अताडयत् । '१६० । अतः कुकमि -
।८।३।४६।' इत्यादिनानव्ययविसर्जनीयस्य सत्वम् ॥
 
७३९ - चकारा ऽधस्- पदं ना ऽसौ चरन् वियति मारुतिः ॥
मर्मा - विद्भिस् तमस् - काण्डैर् विध्यमानोऽप्य॑नेकधा ६६
इति सत्वाधिकारः ।
 
चकारेत्यादि — असौ मारुतिर्वियति चरत् अधस्पदं पृथिव्यां पदं न च
कार । अधस्पदमिति मयूरव्यं सका दित्वात्सः '१४४ । कस्कादिषु च ।८।३४८ ।
इति सत्वम् । मर्माणि विध्यन्तीति विप् । '१९३७॥ नहि वृति । ६।३।११६।'
इत्यादिना पूर्वपदस्य दीर्घश्वम् ॥ इति सत्वाधिकारः ॥