This page has not been fully proofread.

२४२ भट्टि- काव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे चतुर्थो वर्गः,"
 
रोदितीत्यादि — तस्मिन्निन्द्रजिति आयात्यागच्छति सति पक्षिगण: हतान्
वृक्षान् कपिनाशितान् शुचा शोकेन मुक्तकण्ठं सशब्दं नामग्राहं रोढ़िति स्मेव
रुदितवानिव । नामग्रहणपूर्वया रोदनक्रियया व्याप्यमानत्वात् वृक्षाणां कर्म-
मंज्ञा । '२४७४ । रुदादिभ्यः-१७।२।७६ ।' इतीट् । बन्धून् बन्धोरिव यथा बन्धो-
रागमने कश्चित् बन्धून् रोदिति ॥
 
७२९ - आश्वसीर्दिव चा ऽऽयाति तद् वेग-पवना॒ऽऽहतम् ॥
विचित्र स्तबोद्भासि वनं लुलित-पलवम् ॥ ५६ ॥
आश्वसीदित्यादि - तस्मिन्नायाति वनं तद्वेगपवनाहतं सत् आश्वसीदिव
संजीवितमिव । लङि रूपम् । यतो विचित्रस्तबकोद्भासि लुलितपल्लवं च जातम् ।
पूर्ववदि ॥
 
-
 
७३० - 'न प्राणिषि दुराचार !, मायानामशिषे न च ॥
नैडिषे यदि काकुत्स्थं' तर्मूचे वानरो वचः ॥ ५७ ॥
इङधिकारः ।
 
नेत्यादि — वानरस्तमागच्छन्तमिदं वचनमूचे । हे दुराचार ! न प्राणिपि न
जीवसि । '११४४ । अन च' इत्यस्य रूपम् । पूर्ववदि । '२४७८ । अनितेः 1८/४/-
१९ । ' इति णत्वम् । नच मायानामीशिपे नेशिता भवसि । '२४३९ । ईशः से
।७।२।७७१' इति इट् । '६१३ अधीगर्थ- । २।३।५२।' इति कर्मणि षष्ठी । यदि
काकुत्स्थं नेडिषे न स्तौषि । '२४४० । इंडजोर्ध्वे च ।७।२।७८॥ इति चकारात्
सेवेतीद्र ॥
॥ इतीडधिकारः ॥
 
इदानीं '१३८ । विसर्जनीयस्य सः ।८।३॥३४।' इत्यधिकृत्याह-
७३१ - स - सैन्यश् छादयन् संख्ये प्रावर्तिष्ट तमिन्द्रजित् ॥
शरैः क्षुरप्रैर् मायाभिः शतशः सर्वतो मुहुः ॥ ५८ ॥
ससैन्य इत्यादि — इन्द्रजित् ससैन्यः सबलः तं वानरं सर्वतः शरैः क्षुरप्रैः
भलैः छादयन् मुहुः क्षणं मायाभिः शतशोऽनेकधा संख्ये प्रावर्तिष्ट प्रवृत्तः ।
लुङि रूपम् । तत्र ससैन्यश्छादयन् इति । १३८ । विसर्जनीयस्य सः ।८।३।३४।'
इति सत्वं छकारे परे श्रुत्वम् । शरैः क्षुरप्रैरिति सत्वापवादः । शर्परे
खरि विसर्जनीयस्य विसर्जनीयः विसर्जनीयस्य विकारनिवृत्त्यर्थः । मायाभिः
शतशः सर्वतः इति '१५१॥ वा शरि ।८।३।३६ ।' इति विकल्पः विसर्जनीयः
सकारो वा ॥
 
७३२ - वानरः कुल- शैलाऽऽभः
प्रसह्या ऽऽयुध-शीकरम् ॥
रक्षस्-पाशान् यशस्-काम्यंस्
तमस् - कल्पानंदुद्रुवत् ॥ ५९ ॥
 
"