This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'मारुतिसंयमो' नाम नवमः सर्गः- २४१
 
'२३७७। यम-रम—।७।२।७३ ।' इत्यादिना सगिटौ । '२७४२ । समुदाभ्यो यमः
–।१।३।७५।' इति तङ् न भवति तत्राकर्मकादिति वर्तते । यत एवं तस्मादश-
वितस्तूर्ण व्रज ॥
 
७२४- अनंसीच् चरणौ तस्य मन्दिरादिन्द्रजिद् व्रजन्, ॥
अवाप्य चाssशिषस् तस्माददा॑यासीत् प्रीतिमुत्तमाम् ॥
अनंसीदित्यादि – एवमुक्त इन्द्रजित मन्दिरात् ब्रजन् गमिष्यन् ।' २७८९॥
वर्तमानसामीप्ये वर्तमानवत् ।३।३।१३१।' इति लट् । तस्य पितुश्चरणावनंसीत्
नतवान् । तस्माद्भावणादाशिषमवाप्योत्तमां प्रीतिमायासीत् । पूर्ववत्सगिटौ ॥
७२५ गते तस्मिन्नुपरंसीत् संरम्भाद् रक्षसां पतिः ॥
 
इन्द्रजिद् विक्रमाऽभिज्ञो मन्वानो वानरं जितम्. ५२
गत इत्यादि
— गते तस्मिन् रक्षसां पतिः रावणः संरम्भात् क्रोधादुपारंसीत्
निवृत्तवान् । पूर्ववत्सगिटौ । रमे: '२७५० । उपाञ्च ।१।३।८४ ।' इति तिप् । स
इन्द्रजित् वानरं जितं मन्वानोऽवगच्छन् । यतो विक्रमाभिज्ञः । अगादिति
वक्ष्यमाणेन संबन्धः ॥
 
युग्मम् ५३-५४
 
७२६ - संसिस्मयिषमाणो ऽगान् मायां व्यञ्जिजिपुर् द्विषः ॥
जगत् पिपविष्र् वायुः कल्पान्त इव दुर्धरः ॥ ५३॥
संसिस्मयप्रमाण इत्यादि — संसिस्मयिषमाणः उपासितुमिच्छन् द्विषः
शत्रून् । अगात् गतवान् । '२७३४ । पूर्ववत्सनः ।१।३।६२॥ इति तङ् । मायां
व्यञ्जिजिषुः व्यक्तीकर्तुमिच्छुः । २६२६। स्मि-पू-रञ्जवशां सनि ।७।२।७४ ।
इती । तत्राः '२४४६ । नन्द्राः ।६।१॥३।' इति नकारो न द्विरुच्यते ।
कल्पान्ते युगान्ते वायुरिव दुर्धरः जगत् पिपविषुः पवितुमुक्षेप्तुमिच्छुः ॥
७२७ – लोकाना॑शिशिपोस् तुल्यः कृतान्तस्य विपर्यये ॥
 
वने चिकरिषोर् वृक्षान् बलं जिगरिषुः कपेः ॥ ५४ ॥
लोकानित्यादि — विपर्यये विनाशकाले लोकानाशिशिषोः भक्षयितुमिच्छोः
कृतान्तस्य तुल्योऽगादिति पूर्वेण संबन्धः । पूर्ववदि । वने वृक्षांश्चिकरिषोः
विक्षेप्तुमिच्छोः । कपेर्बलं सामर्थ्य जिगरिषुः अपनेतुमिच्छुः । कृप्रोरुगन्तत्वात्
'२६१० । सनि ग्रह - गुहोच ।७।२।१२॥ इति प्रतिषेधे प्राप्ते '२६२५॥ इट् सनि
वा । ७।२।४२ ।' इति विकल्पे । '२६११॥ किरश्च पञ्चभ्यः ।७।२।७५।' इतीट् ।
किरतेरिटो दीर्घत्वं नेच्छन्तीति न दीर्घः ॥
 
७२८ रोदिति स्मैव चा ssयाति तस्मिन् पक्षि-गणः शुचा ॥
मुक्त-कण्ठं हतान् वृक्षान् बन्धून् बन्धोरि॑िवा ऽऽगमे ५५
 
भ० का० २१