This page has not been fully proofread.

२४० भट्टि काव्ये — द्वितीयेऽधिकार
काण्डे लक्षण-रूपे चतुर्थो वर्गः,
७२० - ययाथ त्वं द्विपाम॑न्तं, भूयो यातासि चा ऽसकृत् ॥
शशक्थ जेतुं त्वं देवान्, मायाः सस्मर्थ संयति ॥४७॥
ययाथेत्यादि – न केवलं ययाथ, भूयः पुनरपि यातासि यास्यसि । यातेः
क्रादिनियमात् प्राप्तस्येट: । '२२९४ । अचस्तास्वत्थल्यनिटो नित्यम् ।७।२६।
इति प्रतिषेधः । तस्य हि तासौ नित्यमनित्वम् । 'अजन्ता धातवोऽनुदात्ताः'
इति वचनात् । देवान् जेतुं त्वमसकृत् बहुधा शशक्थ शक्तोऽसि । '२२९५ ।
उपदेशेऽत्वतः ।७।२।६२।' इति थलीप्रतिषेधः । शकेस्तासौ नित्यानित्वम्
शकिस्तु कान्त इति वचनात् । मायाश्च कूटयुद्धानि । संयति युद्धे । सस्मर्थ
ज्ञातवानसि । '२२९६ । ऋतो भारद्वाजस्य ।७।२।६३।' इनीप्रतिषेधः ॥
७२१ - त्वं ससर्जिय शस्त्राणि, दद्रष्ठा डरींश च दुःसहान् ॥
शस्त्रैरादिथ शस्त्राणि त्वमेव महताम॑पि ॥ ४८ ॥
 

 
त्वमित्यादि-शस्त्राणि त्वं ससर्जिय क्षिप्तवानसि । अरींश्च दुःसहान् यु
ध्यतः दद्भुष्ट दृष्टवानसि न पलायितोऽसि । '२४०४ । विभाषा सृजि-दृशोः
७॥६५।' इति थलि विभाषेद् । अनिद्रपक्षे '२४०५ । सृजि-दृशोर्झल्य मकिनि
२६॥१॥५८।' इति षत्वष्टुत्वे । महतामपि मध्ये त्वमेव शस्त्राणि परकीयानि श
स्त्रैः स्वैरादिथ जग्धवानसि । '२३८४ । इडत्यर्तिव्ययतीनाम् ॥७॥२॥६६॥
इत्यारिद्र ॥
 
७२२ - स त्वं हनिष्यन् दुर्बुद्धिं
 
कपिं व्रज ममा Sऽज्ञया, ॥
मा ना ऽञ्जी राक्षसीर् मायाः,
प्रस्तावीर् मा न विक्रमम् ॥ ४९ ॥
 
सत्वमित्यादि - स त्वमेवंविधः कपिं दुर्बुद्धिं चपलत्वाद्धनिष्यन् हानेण्या-
मीति मदाज्ञया व्रज । '२३६६ । ऋद्धनोः स्ये ।७।२।७० । इती । वस्त्रेकाजिति
सूत्रत्रयं नोदाहृतम् । वस्त्रादेशश्च छन्दोविषयत्वात् । राक्षसीर्माया मा नाजी:
मान व्यक्तीकुरु । अपि तु व्यक्तीकुर्वित्यर्थः । '२५४६ । अञ्जेः सिचि ।७।२।७१॥'
इतीट् । विक्रमं न मा प्रस्तावीः मा न प्रारभस्व । '२३८५ । स्तु-सु-धूभ्यः
।७।२।७२ ।' इतीट् ॥
 
७२३ मा न सावीर् महाऽस्त्राणि, मा न धावीररिं रणे, ॥
वानरं मा न संयंसीर्, व्रज तूर्णम॑शङ्कितः ॥ ५० ॥
 
मा नेत्यादि - रणे महास्त्राणि मा न सावीः मा न प्रसुहि, मा न मुञ्चेत्यर्थः ।
'१००७] पु प्रसवैश्वर्ययोः ' इत्यस्य रूपम् । अरींश्च मा न धावीः मान कम्पय
अपि तु भीषयस्वेत्यर्थः । पूर्ववदि । वानरं मा न संयंसीः मा न वषीः ।