2023-02-15 17:22:25 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके 'मारुतिसंयमो' नाम नवमः सर्गः-
७१५- दमित्वाऽप्यरि-संघातानं श्रान्त्वा कपि-केशरी ॥
वनं चचार कर्तिप्यन् नर्त्स्यन्निव निरङ्कुशः ॥ ४२ ॥
दमित्वेत्यादि – कपिकेशरी हनुमान् अरिसंघातान् दमित्वा उपशमं नीत्वा ।
अश्रान्त्वा अपरिश्रान्तो भूत्वा वनं चचार । '३३२८ । इति वा ।७।२।५६।१
इति विकल्पेनेट् । निरङ्कुश: निरवग्रहः । कर्तियन् छेत्स्यन् । नर्त्स्यन्निव नर्तुकाम
इव । '२५०६ । सेऽसिचि- ।७।२।५१॥' इत्यादिना विभाषेद् ॥
७१६ - पारं जिगमिषन् सो ऽथ पुनरावर्त्स्यतां द्विषाम् ॥
२३९
मत्त- द्विरद-वद् रेमे बने लङ्का - निवासिनाम् ॥४३॥
पारमित्यादि — अथ स कपिद्विषां पारं जिगमिषन् गन्तुमिच्छन् । '२४०१॥
गमेरिट् परस्मैपदेषु ।७।२।१८।' पुनरवर्त्स्यतां प्रतीपीभविष्यताम् । '२३४८ ।
न वृद्भ्यः - १७१२ १५९।' इतीप्रतिषेधः । '२३४७' वृद्भ्यः स्व-सनोः ॥३१९२१'
इति परस्मैपदम् । लङ्कानिवासिनां वने मत्त इव रेमे क्रीडितवान् ॥
3
-
७१७ - 'यद्येकल्प्स्यद॑भिप्रायो योद्धुं रक्षः पतेः स्वयम् ॥
तम॑प्यकर्त्यम॑द्या ऽहं ' वदन्नित्य॑चरत् कपिः ॥४४॥
यदीत्यादि – रक्षः पतेः रावणस्य स्वयं योद्धुं यद्यभिप्रायोऽकल्प्स्यत् सम-
पत्स्यत् । '२३५२ । तासि च क्लृपः ।७।२।६०।' इति चकारात् स्यकारे च नेट् ।
तदा तमप्यहमकर्त्स्य उत्सारयामि । अहमद्येति एवं वदन् कपिर्वनमचरत् ।
'२५०६। सेऽसिचि–। ७।२।५७ ।' इत्यादिना विभाषेट् । अकल्प्स्यदकये-
मिति च '२२२९। लिनिमित्ते ।३।३।१३९। इती ऌङ्ग । हेतुहेतुमद्भावश्च
लिङो निमित्तम् ॥
-
#
७१८ - 'हते तस्मिन् प्रियं श्रुत्वा कल्ता प्रीतिं परां प्रभुः ॥
•तोषो ऽद्यैव च सीतायाः परश् चेतसि कल्प्स्यति. ४५'
हत इत्यादि—तस्मिन् रक्षः पतौ हते प्रियं श्रुत्वा प्रभुः रामः परां प्रीतिं
कल्प्ता जनयिता । अत्रान्तर्भावितो ण्यर्थः । धातोरकर्मकत्वात् । सीतायाश्चाद्यैव
चेतसि तोषः परो महान् कल्प्स्यते संपत्स्यते । '२३५२१ तासि च क्लृपः । ७१२६०१
इतीदप्रतिषेधः । २३५१ । लुटि च क्लृपः ।१।३।९३ ।' इति परस्मैपदम् ॥
७१९ - आहूय रावणो ऽवोचदर्थेन्द्रजितम॑न्तिकात् ॥
-
'वने मत्त इव क्रुद्धो गजेन्द्रः प्रधनेष्व॑टन् ॥ ४६
'आहूयेत्यादि — अथ रावणः इन्द्रजितमाहूय अन्तिकमबोचत् । किम-
चोचदित्याह – वने मत्त इव । यथा गजेन्द्रो मत्तः क्रुद्धो वने पर्यटन् द्विषाम-
न्तं गतवान् तथा त्वं प्रधनेषु संग्रामेष्वटन् । द्विषामन्तं ययाथेति वक्ष्यमाण-
श्लोकेनान्वयः ॥