This page has not been fully proofread.

२३८ भट्टि काव्ये – द्वितीयेऽधिकार
काण्डे लक्षण-रूपे चतुर्थी वर्गः,
७१० - स्त्रां जिज्ञापयिषू शक्तिं बुभूर्षु तु जगन्ति किम् ॥
शस्त्ररित्यकृपातां तौ पश्यतां बुद्धिमा॑हवे. ॥ ३७ ॥
स्वामित्यादि - तो कपिराक्षसौ किं स्त्रां शक्ति जिज्ञापयिषू बोधयितुमि-
च् इव भूर्पू त्रिजगन्ति किं नु त्रैलोक्यं शस्त्रेण भर्तु पूरयितुमिच्छू इत्येवं
बुद्धिमाह पश्यतां प्रेक्षकाणां अकृषातां कृतवतौ । जिज्ञापयिपू बुभूर्पू इति
विभाषेट् । तत्र '९६४ । भृञ् भरणे' इति भवादिकस्य ग्रहणम् । '२६१८।
सनीवन्तर्ध- ।७।२।४९॥ इति सूत्रे भरेति शपा निर्देशात् ॥
 
"
 
७११–मायाभिः सु-चिरं किया राक्षसो ऽक्लिशित-क्रियम् ॥
संप्राप्य वानरं भूमौ पपात परिघाऽऽहतः ॥ ३८ ॥
मायाभिरित्यादि - राक्षसो मायाभिः सुचिरं विकेशं कृत्वा वानरं
अक्लिशितक्रियमनभिभूतव्यापारं संप्राप्य परिवाहतो भूमौ पपात । '३०४९।
किशः क्त्वा निष्ठयोः ।७।२।५० ।' इति विभाषेट् ॥
 
युग्मम् ३९-४०-
७१२ - पवितो ऽनुगुणैर् वातैः शीतैः पूत्वा पयो-निधौ ॥
वभञ्जाऽध्युषितं भूयः क्षुधित्वा पत्रिभिर् वनम् ॥ ३९॥
पवित इत्यादि — कपिरपि पयोनिधौ पूत्वा स्नात्वा अनुगुणैरनुकूलै : शीत-
वतः पवितः पवित्रीकृतः । '३०५०। पूच ।७।२।११॥ इति विभाषेट् । भूयः
पुनर्वनं बभञ्ज । कीदृशम् । पत्रिभिः पक्षिभिः क्षुवितैर्भूत्वा । अध्युपितं कृत-
निवासम् । '३०४६ । वसति- क्षुधोः ॥२५२ । ' इतीटू ॥
७१३ – उच्चैरैञ्चित-लाङ्गुलः शिरो ऽञ्चित्वैव संवहन् ॥
 
दधद् विलुमितं वातैः केशरं वह्नि- पिङ्गलम् ॥ ४० ॥
उच्चैरित्यादि — उच्चैरूर्ध्वं अञ्चितं पूजितं लाङ्गूलं पुच्छं यस्य । शोभनविन्या-
सेन स्थितत्वात् । शिरोऽञ्चित्वेव संवहन् अनम्रत्वात् पूजयित्वेव शिरो बिभ्रा-
णः। '३०४७। अञ्चेः पूजायाम् ।७।२।५३।' इति विभाषेद् । वह्निपिङ्गलं च
केशरं सटां दधत् चित् । वातैर्विलुभितं आकुलितम् । '३०४८ । लुभो विमो-
हमे ।७।२।१४।' इतीद । विमोहनमा कुलीकरणम् ॥
 
"
 
७१४ - जरित्वेव जवेना ऽन्ये निपेतुस् तस्य शाखिनः ॥
वृश्चित्वा विवशान॑न्यान् बलेना ऽपातयत् तरून्.४१
जरित्वेत्यादि- - तस्य कपेर्जवेन वेगेन अन्ये शाखिनः जरित्वेव जीर्णा इव
भूत्वा निपेतुः । अन्यांस्तरून् बलेन ब्रश्चित्वा छित्त्वा । विवशान् सस्तपल्लवानपा-
तयत् पातितवान् । १३३२७। ज़-बश्वोः क्त्वि ।७।२।५५ इती ॥