This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'मारुतिसंयमो' नाम नवमः सर्गः- २३७
७०६ - भूयस् तं धिप्सुमा॑हूय राज-पुत्रं दिदम्भषुः ॥
 
अहंस् ततः स मूर्च्छा-वान् संशिश्रीपुर॑भूद् ध्वजम् ३३
भूय इत्यादि – तं राजपुत्रं अक्षं धिप्सुं दम्भितुं वञ्चयितुमिच्छुम् । भूयः
पुनरम दिदम्भिषुः वञ्चयितुमिच्छुः । आहूयागच्छेत्यहन् हतवान् । ततः सोऽक्षः
मूर्च्छावान् मूर्च्छायुक्तः । ध्वजमात्मीयं संशिश्रीषुः संश्रयितुमिच्छुः अभूत् भूतः ।
अत्र दम्भेः श्रयतेश्च '२६१८ । सनीवन्तर्ध-।७।२।४९ । इतीट् । अत्र श्रयतेरनि-
ट्र्पक्षे '२६१४ । अज्झनगमां सनि ।६।४।१६।' इति दीर्घः । द्वितीयस च '२६-
२१ । दम्न इच्च । ७ । ४ । ५६ । अभ्यासलोपः । दम्भेईलग्रहणस्य जातिपरत्वात्सिद्ध-
मिति कित्त्वे अनुनासिकलोपः । '३२६ । एकाचो बशः । ८।२।३७ ॥ इति भष् ।
८५२६ । खरि च ।८।४।५५॥ इति चम् ॥
 
७०७ आश्वस्या ऽक्षः क्षणालू लोकान् विभ्रक्षुरिव तेजसा ॥
रुषा विभ्वजिषु प्रख्यं कपिं बाणैरंवाकिरत् ॥ ३४ ॥
आश्वस्येत्यादि– क्षणात् क्षणमात्रेणाश्वस्य संज्ञां लब्ध्वा लोकान् जनान्
तेजसा क्रोधोत्थेन विक्षुरिव । अथ स कपिं बाणैरवाकिरत् संच्छादितवान् ।
कीदृशम् । विभ्रज्जिपुप्रख्यं अग्नितुल्यम् । विभ्रजिषुः विभ्रक्षुरिति '२६१८। स-
नीवन्तर्ध-।७।२।४९।' इत्यादिना विभाषेद् । तत्रानिपक्षे '३८० । स्कोः-।८।२।
२९ । ' इति सलोपः । २९४ । ब्रश्च - ।८।२।३६।' इति षः । इस्पक्षे सकारस्य
जत्वं श्रुत्वं च ॥
 
७०८ - संयुयूषं दिशो बाणैरक्षं यियविषुर् द्रुमैः ॥
 
कपिर् मायामि॑िवा ऽकार्षीद् दर्शयन् विक्रमं रणे ॥३५॥
संयुयूषुमित्यादि – बाणैर्दिशः संयुयूषु मिश्रयितुमिच्छु अक्षं कपिः दुमै-
यियविपुः योतुमिच्छुर्मायामिवेन्द्रजालमिवाकार्षीत् कृतवान् रणे विक्रमं दर्श-
यन् । यौतेः सन् । '२६१८ । सनीवन्त ।७।२।२९।' इति विभावे । '२५७७॥
ओः पु-यण्-ज्यपरे ।७।४।८०' इतीत्वम् । '२६१४ । अज्झन-गमां सनि ।६।४।-
१६॥' इति दीर्घः ॥
 
७०९ - वानरं प्रोर्णुनविषुः शस्त्रैर॑क्षो विदिद्युते ॥
 
3
 
5
 
तं प्रोर्णुनूषुरूपलैः स वृक्षैररावभौ कपिः ॥ ३६ ॥
वानरमित्यादि – वानरं प्रोर्णुनविषुः छादयितुमिच्छुरक्षः विदिषुते विद्यो-
तते स्म ।' २३४४ । धुति-स्वाप्योः ।७।४।६७।' इति संप्रसारणम् । कपिरपि त-
मक्षं उपलैर्वृक्षसहितैः प्रोर्णुनूषुः संवरीतुमिच्छुराबभौ भाति स्म । ऊर्णोतेः पूर्व-
वद्विभाषेद । इट्पक्षे गुणः अन्यत्र '२६१४ । अज्झन - । ६।४।१६।' इति दीर्घः ।
उभयत्र '२४४६।' नन्द्राः-।६।१।३।' इति रेफो न द्विरुच्यते ॥