2023-02-15 17:22:25 by ambuda-bot
This page has not been fully proofread.
२३६ भट्टि- काव्ये - द्वितीयेऽधिकार काण्डे लक्षण रूपे चतुर्थी वर्गः,
नोत्तमे संग्रामवरे । एवमुक्तः सन् स मायानां सोता जनकः कपेर्द्युतिं तेजो विध-
वितुमपनेतुमगात् गतः । सोता धवितुमिति '२२७९ । स्वरति । ७।२।४४ इत्या
दिसूत्रेण विभाषे ॥
७०२ विगाढा रं वनस्या ऽसौ शत्रूणां गाहिता कपिः ॥
अक्षं रधितुमारेभे रद्धा लङ्काऽनिवासिनाम् ॥ २९ ॥
विगाढारमित्यादि — असौ कपिः वनस्य विगाढा अवलोडयिता । अरं
शीघ्रम् । शत्रूणां गाहिता विनाशयिता । कर्मणि षष्टी । ऊदित्वाद्विभाषेट् '२२-
७९। स्वरति —।७।२।४४।' इत्यादिना अक्षं रधितुं हिंसितुमारेभे प्रवृत्तः । लङ्का-
निवासिनां रक्षसां रद्धा हिंसिता । २५१५ धादिभ्यश्च ।७।२।४५ ॥ इति
विभाषेद् ॥
७०३ - निष्कोषितव्यान् निष्कोष्टुं
MOUNTA
प्राणान् दशमुखाऽऽत्मजात् ॥
आदाय परिघं तस्थौ
वनान् निष्कुपित द्रुमः ॥ ३० ॥
निष्कोषितव्यानित्यादि - दशमुखात्मजादक्षात् । प्राणान्निष्कोपितव्यान्
अपनेतव्यान् अपनयार्हान् निष्कोष्टुं अपनेष्यामीति परिघमादाय तस्थौ । '२५-
६०। निरः कुषः ।७।२।४६ । इति विभाषेट् । निष्कुपितद्रुमः वनादपनीतवृक्षः ।
'३०४५ । इण् निष्टायाम् । ७।२।४७।' इती ॥
७०४- एष्टारमैपिता संख्ये सोढारं सहिता भृशम् ॥
रेष्टारं रेषितं व्यास्यद् रोष्टाऽक्षः शस्त्र संहतीः ॥३१॥
एटारमित्यादि-कपि युद्धस्यैष्टारं सुषिता पुषणशीलोऽक्षः । ताच्छील्ये
तृन् । '६२७ । न लोक-।२।३।६९। इति षष्टीप्रतिषेधः । सोढारं प्रहरणस्य सहि-
तारं सहिता भृशं सहनशीलः । रेष्टारं हिंसकं रेषितुं हिंसितुम् । रोष्टा रोपण-
शीलः शस्त्र संहतीर्व्यास्यत् क्षिप्तवान् । लङि रूपम् । सर्वत्र '२३४० । तीप-सह
- ।७।२।४८।' इत्यादिना वेटू ॥
७०५-शस्त्रैर् दिदेविषुं संख्ये दुषुः परिघं कपिः ॥
अर्दिधिषुर् यशः कीर्तिममुं वृक्षैरताडयत् ॥ ३२ ॥
शस्त्रैरित्यादि —– कपिः अर्दिधिषुः यशो वर्धितुमिच्छुः । परिघं दुधूषुः ।
परिषेण क्रीडितुमिच्छुः । अक्षं वृक्षैरताडयत् हतवान् । कीदृशम् । शस्त्रैर्दिदेविषु
क्रीडितुमिच्छम् । कीर्तिमीसुं वर्धितुमिच्छुम् । दिवेरिवन्तस्य १३२४ । ऋधु
वृद्धौ' इत्यस्य च ' २६१८। सनीवन्त ।७।२।४९ ।' इत्यादिना विभाषितेट् । तत्र
दिवेरिडभावपक्षे '२५७१। छोः शूर्-१६।४।१९।' ऋधेः '२६१९॥ आपूज्ञप्यृधा-
मीद ।७।४।५५॥' इतीत्वं अभ्यासलोपन ॥