This page has not been fully proofread.

२३४ भट्टि-काव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे चतुर्थी वर्गः,
 
तेषामित्यादि- तेषां रक्षसां निहन्यमानानां संधुष्टैः शब्दैः कर्णभेदिभिः
वाधिर्यकरैः । अभ्यमितत्रासं अभिगतन्त्रासं जगदभूत् । आस्वान्ता: अशेषा
दिशो यस्मिन् जगति । संघुष्टाभ्यमितस्वान्ता: '३०६९। रुप्यमत्वर- । ७।२।२८।'
इति विकल्पितेटः ॥
 
३९५ -भय- संहृष्ट- रोमाणस् ततस् ते ऽपचित-द्विपः ॥
 
-
 
क्षणेन क्षीण - विक्रान्ताः कपिना ऽनेषत क्षयम् ॥२२॥
इतीट्-प्रतीपेधाधिकारः ॥
 
भयेत्यादि- ततस्ते राक्षसाः कपिना क्षणेन क्षयं विनाशमनेषत नीताः ।
कर्मणि लुङ् । भयसंहृष्टरोमाणः भयोद्गतरोमाञ्चाः । '३०७० । हृपेर्लोमसु ।७।२।
२९ ।' इति विभाषितेद् । अपचितद्विषः अपचितानां पूजितानां ऋषीणां शत्रवः ।
- ३०७१ । अपचितश्च ।७।२।३०।' इति निपातः । क्षीणविक्रान्ताः क्षीणं
विक्रान्तं पराक्रमो येषाम् । '३०१५ । क्षियो दीर्घात् ।८।२।१४६ ।' इति निष्ठात-
कारस्य नः ॥
 
इतीद-प्रतिषेधाधिकारः ।
 
इतः प्रभृतीटमधिकृत्याह-
६९६ - हत्वा रक्षांसि लवितुर्मक्रमीन् मारुतिः पुनः ॥
अशोकवनिकामैव निगृहीताऽरि शासनः ॥ २३ ॥
 
-
 
हृत्वेत्यादि - रक्षांसि हत्वा मारुतिरशोकवनिका मेकामेव पुनर्लवितुं छेनुम् ।
आर्धधातुकस्ट् । अक्रमीत् गतवान् । '२३२३ । - मोरनात्मनेपदनिमित्ते
७।२।३६।' इतीट् । निगृहीतारिशासनः ध्वस्तारिव्यवस्थः । २५६२ । ग्रहोऽलिटि
दीर्घः ।७।२।३७।' इतीटो दीर्घत्वम् ॥
 
६९७ - आवरीतुमि॑िवा ऽऽकाशं वरितुं वीनि॑िर्वोत्थितम् ॥
 
वनं प्रभञ्जन - सुतो ना sदयिष्ट विनाशयन् ॥ २४ ॥
आवरीतुमित्यादि — प्रभञ्जनसुतो हनूमान् । वनमशोकवनिकाख्यं विना-
शयन् नायिष्ट दयां न कृतवान् । लुङि रूपम् । आकाशमावरीतुमिव अवष्ट-
चधुमिवोत्थितं वनम् । वीनू पक्षिणो वरितुं प्रार्थयितुमिवोत्थितं 'आगच्छत'
नान्यत्र यात, 'इहैव फलवृद्धिं प्राप्स्यथ' इति । आवरीतुं वरितुमिति २३९१॥
वृतो वा ।७।२।३८।' इति विकल्पेनेटो दीर्घत्वम् ॥
 
६९८ - वरिषीष्ट शिवं क्षिप्यन्
 
मैथिल्याः कल्प-शाखिनः, ॥