This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'मारुतिसंयमो' नाम नवमः सर्ग:-
युग्मम् १८-१९-
६९१ - तान् दृष्ट्वा ऽतिदृढान् धृष्टान्
प्राप्तान् परिवृढाऽऽज्ञ्या ॥
कष्टं विनर्दतः क्रूरान्
 
शस्त्र घुष्ट करान् कपिः ॥ १८ ॥
 
तानित्यादि- तान् दृष्ट्वा कपिः आदिदिति वक्ष्यमाणेन संवन्धः । किंभू-
तान् वृष्टान् । वृष्णोतीति धृष्टः । ३०५९। धृषि-शसी वैया ।७।२।१९।' इती-
प्रतिषेधः । अतिदृढान् बलवतः । १३०६० । दृढः स्थूल-बलयोः ।७१२।२०।'
इनि निपातनम् । परिवृढाज्ञया परिवृढस्य प्रभोराज्ञया प्राप्तान् । '३०६१॥ प्रभौ
परिवृढः ।७।२।२१।' इति निपातनम् । कष्टं विनर्दतः कृच्छ्रं ध्वनतः । गम्भीररवं
त्रा । '३०६२। कृच्छ्र-गहनयोः कषः ।७।२।२२।' इतीदप्रतिषेधः । क्रूरान् हिंसान् ।
शस्त्रघुष्टकरान् । '३०६३ । धुषिरविशब्द ।७।२।२३।' इतीप्रतिषेधः ॥
६९२ - अ व्यर्णो गिरि-कूटाभान॑भ्यार्णाना॑र्दिद् द्रुतम् ॥
 
वृत्त-शस्त्रान् महा॒ऽरम्भान॑-दान्तांस् त्रिदशैर॑पि ॥ १९॥
 
-
 
अव्यर्ण इत्यादि – अव्यर्णोऽपीडितः । '३०६४ अः सं-नि-विभ्यः ।७१२-
२४।' इतीप्रतिषेधः । गिरिकूटाभान् महागिरिसदृशप्रमाणान् । अभ्यर्णानविदू-
रान् । '३०६५। अभेश्चावियें ।७।२।२५।' इतीदप्रतिषेधः । द्रुतमार्दिदत् हिंसि -
तवान् । अर्देः स्वार्थिकण्यन्तस्य लुङि रूपम् । वृत्तशस्त्रोऽधीतशस्त्रविद्यः । '३०६६।
पोरध्ययने वृत्तम् ।७।२।२६।' इति इडभावो णिलुक् च निपात्यते । महार-
म्भान् अनल्पव्यापारान् । त्रिदशैरप्यदान्तान् अशमितान् । ३०६८ । वा दान्त-
–।७।२।२७।' इत्यादिना इडभावो णिलुक् च निपात्यते ॥
 
६९३–दमितता॒ऽरिः प्रशान्तौजा नादाऽऽपूरित- दिङ्मुखः ॥
जघान रूषितो रुष्टांस् त्वरितस् तूर्णमागतान् ॥ २०॥
दमितारिरित्यादि — ये तु प्रशान्तौजसः शमितबला: सन्तो रुष्टाः तूर्णमा-
गताः तान् कपिर्जधान व्यापादितवान् । प्रतापाहाम्यन्तोऽरयो दमिता येन
दमितारिः । प्रशान्तं शत्रूणामोजो येन स प्रशान्तौजाः । नादापूरितदिङ्मुखः
तस्य हृष्टत्वात् । रुषितः क्रुद्धः । स्वरितः ससंभ्रमः । अत्र दमितप्रशमितपूरिताः
ण्यन्ता: '३०६८। वा दान्त ।७।२।२७।' इत्यादिना विकल्पितेट: । रुष्टरुषितत्व-
रिता: '३०६९। रुष्यमत्वर-।७।२।२८।' इत्यादिना ॥
 
:
 
६९४–तेषां निहन्यमानानां संघुष्टैः कर्ण-भेदिभिः ॥
अभूद॑भ्यमित त्रासमा॑स्वान्तता॒ऽशेष-दिग् जगत् ॥ २१ ॥