This page has not been fully proofread.

२३२ भट्टि काव्ये — द्वितीयेऽधिकार
काण्डे लक्षण-रूपे चतुथों वर्गः,
 
संजुघुचव इत्यादि-तत उत्तरकालं ये हतशेषा निशाचराः ते संजुघुक्षव
आयूंपि जीवितानि गोहितुमिच्छवः । गृहेः पूर्ववप्रतिषेधः । रावणान्तिकमाज-
ग्मुः आगताः । प्रतिरुरूपवः वक्ष्यमाणमर्थं कथयितुमिच्छवः । अत्रापि पूर्ववत्प्र
तिषेधः । तत्र चकारेणोगन्तानां सनि समुच्चितत्वात् ॥
 
६८८ - 'एकेन बहवः शूराः साऽऽविष्काराः प्रमत्त-वत् ॥
वैमुख्यं चक्रमे त्युच्चेरूचुर् दश-मुखऽन्तिके ॥१५॥
एक्रेनेत्यादि — वयं बहवः शूराः साविष्काराः साहंकारा अपि सन्तः एके-
नापि कपिना हेतुभूतेन वैमुख्यं चक्रम पराङ्मुखत्वमनुष्ठितवन्तः प्रमत्तवत् मद्य-
पानमत्ता इव । एवं च चित्तव्याक्षेपादुत्तमपुरुषे लिटि कृते '२२९३ । कृ-सू-१७/-
२।१३।' इत्यादिना इप्रतिषेधः नियमित इति । एवं दशमुखान्तिके उच्चैरूचुः॥
६८९ - मांसोपभोग-संशूनानुद्विांस् तान॑वेत्य॑ सः ॥
 
उद्वृत्त - नयनो मित्रान् मन्त्रिणः स्वान् व्यसर्जयत् ॥ १६॥
मांसेत्यादि–स दशमुखस्तानुद्विमान् भीतानवेत्य ज्ञात्वा स्वानात्मीयान्
मन्त्रिणो व्यसर्जयत् प्राहिणोत् । कीदृशांस्तान् । मांसोपभोगसंशूनान् मांसोपभो-
गेन स्थूलवर्मणः । उभयत्रापि । '३०३९ । वीदितो निष्टायाम् ।७।२।१४।' इती-
ट्रप्रतिषेधः । तत्र श्वयतेर्यजादित्वात् संप्रसारणं '२५५९।ः ॥४॥ इति
संप्रसारणस्य दीर्घः । द्वयोरप्योदित्त्वान्निष्ठानत्वम् । उद्वृत्तनयनो रोषात् निष्का-
न्ततारकः । '३०२५ । यम्य विभाषा ।७।२।१५।' इतीदप्रतिषेधः वृतेरुदित्वात् ।
मित्रान् स्त्रिग्धान् मन्त्रिणः । '२०३६ । ओदितश्च ।७।२।१६।' इती प्रतिषेधः ।
'३०१६। रदाभ्याम् । ८।२।१२॥ इति निष्ठानत्वम् ॥
६९० - प्रमेदिताः स पुत्रास् ते
सु-स्वान्ता वाढ - विक्रमाः ॥
अ-म्लिष्ट-नादा निरगुः
 
फाण्टचित्राऽस्त्र - पाणयः ॥ १७ ॥
 
प्रमेदिता इत्यादि — ते मन्त्रिणः सपुत्राः पुत्रैः सह निरगुः निर्गताः । '२४•
५८ । इणो गा लुङि ।२।४।४५॥ अमेदिताः स्निग्धीभवितुमारब्धाः । आदिकर्मणि
निष्ठा । ततो '३०५४। विभाषा भावादिकर्मणोः' इति प्रतिषेधः । इदपक्षे '३०-
५२ । निष्ठा शीङ्- ।१।२।१९। इत्यादिना कित्त्वप्रतिषेधात् गुणः । सुस्वान्ताः स्वा.
मिनि कल्याणमनसः । बाढविक्रमाः भृशपराक्रमा: अम्लिष्टनादाः विस्पष्टवाचः
मन्त्रिणां वाग्मित्वात् । फाण्टचित्रास्त्रपाणयः यदशतमपिष्टं कषायमुदकसंपर्कमा
त्राद्विभक्तरसं ईषदुष्णं तदल्पप्रयाससाध्यत्वात् अनायाससाध्यं फाण्टमित्युच्यते
तेन चित्राणि रञ्जितानि अस्त्राणि पाणौ येषामिति स्वान्तादयः '३०५८। धुंध-
स्वान्त-।७।२।१८।' इत्यादिना निपातिताः ॥