This page has not been fully proofread.

२३० भट्टि काव्ये
 
- द्वितीयेऽधिकार काण्डे लक्षण-रूपे चतुर्थी वर्गः,
 
लालमित्यादि – सहनुमान् लाङ्गूलं पुच्छमुहृतं उत्क्षिप्तं धुन्वन् । '१३३५॥
'वृञ् कम्पने' इति स्वादौ पठितः । परिघं गुरुं उद्वहन् तोरणमारुह्य तस्थौ । न
तु पूर्व प्रजहार प्रहृतवान् शूराणां पश्चात् प्रहारित्वात् ॥ एते प्रकीर्णकाः ॥
इतः परं सिचि वृद्धिमधिकृत्याह-
३८१ - अक्षारिषुः शराम्भांसि तस्मिन् रक्षः पयोधराः ॥
 
न चाऽह्वालीन्, न चाऽत्राजीत् त्रासं कपि-महीधरः ८
अक्षारिपुरित्यादि- तस्मिन् वने रक्षः पयोधराः रक्षांसि पयोधरा इव ।
शराम्भांसि शरान् अम्भांसीव । अक्षारिपुः क्षरितवन्तः । क्षरतिरकर्मकः क्षरे-
त्तजवृत्तिरित्यादि प्रयोगेषु दृश्यते । इह तु सकर्मको विवक्षितः । कर्मिहीधर
इव । न चाह्नालीत् न चलितवान् । द्वयोरपि '२२८४ । अतो हलादेवोः ।७/-
२।७।' इति विकल्पे प्राप्ते '२३३० । अतो रान्तस्य ।७।२।२।' इति सिचि वृद्धिः ।
नावाजीत् त्रासं भयं च न जगाम । महीधरतुल्यत्वात् । '२२६८। नेटि ।७।२।
४।' इति प्रतिषेधस्य '२२८१ । अतो हलादेर्लंघोः ।७।२।७।' इति विकल्पिते
'२२६७ । वद-ब्रज - ।७।२।३॥ इत्यादिना वृद्धिः ॥
 
६८२ - अवादीत् तिष्ठते॑त्युच्चैः, प्रादेवीत् परिघं कपिः ॥
 
तथा, यथा रणे प्राणान् बहूनामंग्रहीद् द्विषाम् ॥ ९॥
अवादीदित्यादि- - तत उत्तरकालं कपिस्तिष्ठत मा पलायध्वमिति उच्चैस्ता-
नवादीत् । पूर्ववद्वृद्धिः । तथा तेन प्रकारेण परिघं परिघेण प्रादेवीत् विजिगीषते
स्म । '५६२ । दिवः कर्म च ।१।४।४३।' इति परिघस्य कर्मसंज्ञा । दिवेः '२२६८ ।
नेटि ।७।२।४।' इति वृद्धिप्रतिषेधः । यथा बहूनां द्विपां शत्रूणां प्राणानग्रहीत्
गृहीतवान् । '२२८४ । अतो हलादेः- ।७।२।७।' इति विकल्पे प्राप्ते '२२९९ ॥
हृयन्त क्षण श्वस- ।७।२५।' इति प्रतिषेधः ॥
 

 
३८३ - व्रणैर॑वमिषू रक्तं, देहै: प्रौर्णाविषुर् भुवम् ॥
 
5
 
दिशः प्रौर्णाविषुश् चाऽन्ये यातुधाना भवद् - भियः १०
व्रणैरित्यादि – यातुधाना राक्षसा व्रणैः प्रहारमार्गैः रक्तं शोणितमवमिषुः
चमन्ति स्म । '२२९९ । ह्रयन्त ।७।२।५।' इति वृद्धिप्रतिषेधः । देहेर्भुवं प्रौर्णा-
विपुः छादितवन्तः । अन्ये यातुधानाः भवद्भियः भवन्ती भीर्यपामिति भयाप
लायमानाः । दिशः प्रौर्णाविषुः छादितवन्तः । '२४४९। ऊर्विभाषा । ७।२।६॥
इति विकल्पः । ऊर्णोते: '२४४७ । विभापोर्णोः ।१।२।३।' इत्यङित्त्वपक्षे द्रष्टव्यः ।
ङित्त्वे गुणवृद्धिप्रतिषेधात् ॥
 
-
 
६८४ - अरासिषुश् च्युतोत्साहा भिन्न-देहाः प्रियाऽसवः ॥
कपेरत्रासिपुर नादान मृगाः सिंह- ध्वनेरिव ॥ ११ ॥
" इति सिचि वृद्ध्यधिकारः ॥