This page has not been fully proofread.

-
 
तथा लक्ष्य रूपे कथानके 'मारुतिसंयमो' नाम नवमः सर्गः- २२९
६७५ - 'यदंताप्सीच् छनैर्भानुर्, यत्राऽवासीन् मितं मरुत् ॥
यदा॑प्यानं हिमा॑मो॒स्रेण, भनक्यु॑पवनं कपिः ॥ २॥'
यदित्यादि – यद्वनं भानुः शनैर्मन्दमताप्सीत् तपति स्म । हलन्तलक्षणा
वृद्धिः । मरुत् मितं स्तोकमवासीत् वाति स्म । हिमोत्रेण शिशिररश्मिना आप्यानं
वृद्धिं नीतम् । प्यायतेः '८७३ । लोपो व्योवलि ।६।१।६६ ।' इति यलोपः ।
ओदित्त्वान्नत्वम् । तदुपवनं कपिर्भनक्ति चूर्णयतीति निवेदनमकार्षुः ॥
६७६ - ततो ऽशीति- सहस्राणि किङ्कराणां समादिशत् ॥
 
इन्द्रजित- सूर् विनाशाय मारुतेः क्रोध-मूर्च्छितः ॥ ३॥
 
a
 
तत इत्यादि – निवेदनानन्तरमिन्द्रजित्सूः रावणः । इन्द्रजितं सूत इति
-२९७५। सत्सूद्विप–।३।२।६॥' इत्यादिनानुपसर्गे किप् । मारुतेर्हनूमतो विना-
शाय । अशीतिसहस्राणि समादिशत् समादिष्टवान् । किङ्कराणां किं कुर्वन्तीति
'२९३५ । दिवा विभा । ३।२।२१॥' इत्यादिना टच् । क्रोधमूर्च्छितः क्रोधोद्धृतः ।
मूर्च्छ: समुच्छ्राये वर्तमानत्वात् ॥
 
६७७ - शक्त्यृष्टि-परिघ-प्रास-गदा- मुद्गर- पाणयः ॥
 
व्यनुवाना दिशः प्रापुर् वनं दृष्टि - विषपमाः ॥ ४॥
शक्तीत्यादि — ते किङ्करा वनं प्रापुः प्राप्तवन्तः । शक्त्यादयः प्रहरण-
विशेषाः पाणौ येषामिति प्रहरणार्थेभ्यः परे निष्टासप्तम्यौ भवतः । व्यश्नवानाः
दिशो व्याप्नुवन्तः । '१३४५ । अशु व्याप्तौ' सौवादिकः । दृष्टिविषोपमाः, भुजङ्ग-
चत् दृष्ट्यैव विनाशयन्त इत्यर्थः ॥
 
६७८ - दध्वान मेघ-वद् भीममा॑दाय परिघं कपिः ॥
 
नेदुर् दीप्तायुधास् तेऽपि तडित्वन्त इवाऽम्बुदाः ॥ ५॥
दध्वानेत्यादि – कपिर्भीमं परिघं भयानकमर्गलमादाय मेघवद्दध्वान ध्वनति
स्म । तेऽपि किङ्कराः तडित्वन्त इवाम्बुदाः । नेदुः नदुन्ति स्म । किङ्कराणां
कृष्णत्वात् मेघैः सादृश्यं आयुधानां च तडितेति ॥
 
६७९ - कपिना ऽम्भोधि-धीरेण समगंसत राक्षसाः ॥
 
वर्षासू॑द्धत - तोर्या॑घाः समुद्रेणैव सिन्धवः ॥ ६ ॥
 
.
 
-
 
कपिनेत्यादि – कपिना अम्भोधिधीरेणाक्षोभ्यत्वात् । राक्षसाः समगंसत
संगताः । '२६९९। समो गम्मृच्छि – ।१।३।२९।' इत्यादिना तङ् लुङ् । यथा
सिन्धवो नद्यः उद्धततोयौघाः उद्विक्तजलपूराः समुद्रेण सङ्गच्छन्ते ॥
 
६८० - लाङ्गलमुद्धतं धुन्वन्नुहन् परिघं गुरुम् ॥
 
तस्थौ तोरणमारुह्य, पूर्व न प्रजहार सः ॥ ७ ॥
 
भ० का० २०