This page has not been fully proofread.

२२८ भट्टिकाव्ये -- द्वितीयेऽधिकार काण्डे लक्षण-रूपे तृतीयो वर्गः,
 
६७३ - विलुंलित-पुष्प-रेणु
कपिशं
प्रशान्त - कलिका-
पलाश-कुसुमं
कुसुम-निपात-विचित्र-वसुधं
स-शब्द-निपतद् द्रुमोत्क-शकुनम् ॥
शकुन- निनाद- नादि- ककुब्
विलोल - विपलायमान हरिणं
हरिण-विलोचनाऽधिवसतिं
 
बभञ्ज पवाऽऽत्मजो रिपु वनम् ॥ १३१ ॥
 
विलुलितेत्यादि—कीदृशं बभञ्ज । विलुलितानां पुष्पाणां रेणुभिः कपिशं
पिङ्गम् । प्रशान्ता अवसन्नाः कलिकाः पलाशानि पत्राणि कुसुमानि च यत्र ।
कुसुमानां निपातेन विचित्रा वसुधा यत्र । सशब्दैर्निपतद्भिडमैस्का उन्मनसः
शकुना यत्र । शकुनानां पलायमानानां निनादेन नादिताः संजातनादाः ककुभो
दिशो यत्र । विलोला व्याकुला विपलायमाना हरिणा यत्र । हरिणस्येव लोचने
यस्याः सीतायाः तस्या अधिवसति निवासम् ॥
 
इत्यनभिहिताधिकारः ॥
 
इति श्री जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री भट्टिकाव्ये-
द्वितीयेऽधिकार-काण्डे लक्षण-रूपे तृतीयः परिच्छेदः (वर्गः ),
तथा लक्ष्य रूपे कथानके 'ऽशोकवनिकाभङ्गो' नामाष्टमः
सर्गः पर्यवसितः ।
 
नवमः सर्गः ।
 
अथ प्रकीर्णकाः-
अत्रान्तरे प्रकीर्णकश्लोकानाह-
६७४–द्रु-भङ्ग-ध्वनि-संविना: कुवद्-पक्षि-कुला ऽऽकुलाः ॥ ॥
अकार्षुः क्षणदा-चर्यो रावणस्य निवेदनम् ॥ १॥
द्रुभनेत्यादि–क्षणदाचर्यो निशाचर्यः । '२९३० । चरेष्टः ।३।२।१६।' राव-
णस्य निवेदनमकार्षुः कृतवत्यः वक्ष्यमाणप्रकारेण । दु-भङ्ग - ध्वनि संविझा: शाखा-
भङ्गशब्देन संत्रस्ताः । '१३७३ । ओविजी भय चलनयोः ।' '३०१९ । ओदितश्च
।८।२।३५।' इति निष्ठानत्वम् । कुवत्पक्षिकुलाकुलाः कुजद्भिः पक्षिकुलै: व्यस्तमा-
नसाः । '१११५। कु शब्दे ।' आदादिकस्तस्य उवङादेशः ॥
 
१ - पद्येऽस्मिन् अश्वललितं वृत्तम् । तलक्षणं तु– 'यदि नजौ भजौ भ-ज-भगासू
तदश्वललितं हरार्क-यतिमत् ।' इति वृत्तरत्नाकरे भट्टकेदार आइ ।