This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'ऽशोक - वनिका भङ्गो' नामाटमः सर्गः- २२७
 
स्वामिनः अन्तिकं समीपं गामुको ऽपि गमनशीलो ऽपि । उकप्रयोगे प्रतिषेधः ।
मनसा क्षणं चिन्तितवान् वक्ष्यमाणं कर्म ॥
 
६६९ - कृत्वा कर्म यथाऽऽदिष्टं पूर्व कार्याऽविरोधि यः ॥
करोत्यभ्यधिकं कृत्यं, तमा॑हुर् दूतमुत्तमम् ॥१२७॥
कृत्वेत्यादि — यो दूतो यथोदिष्टं कर्म कार्यं कृत्वा । अत्र कृत्वेत्यव्ययप्रयोगे
प्रतिषेधः । तत उत्तरकालं पूर्वकर्माविरोधि पूर्वकृतस्य कार्यस्य यदविरोधि तद्-
धिकं करोति तमुत्तमं दूतमाहुर्विदुः । नीतिविद इति शेषः । मया च यथोद्दिष्टं
सीतान्वेषणं कृतमिति भावः ॥
 
तदेव च दर्शयन्नाह -
 
६७० वैदेहीं दृष्टवान् कर्म कृत्वा ऽन्यैरपि दुष्करम् ॥
 
*
 
-
 
यशो यास्यायुपादाता वार्तामाख्यायकः प्रभोः १२८
वैदेहीमित्यादि – अहमद्य तावद्वैदेहीं दृष्टवान् । निष्टाप्रयोगे प्रतिषेधः ।
अन्यदपि कार्यमतिदुष्करं कृत्वा । खलप्रयोगे प्रतिषेधः । ततो यश उपादाता ।
आत्मसात्कर्ता । इदमतिदुष्करं तेन कृतमिति । तृन्नन्तस्य प्रयोगे प्रतिषेधः ।
वार्तामाख्यायकः प्रभोर्वार्तामाख्यातास्मीति भविष्यदधिकारात् '३१७५॥ तुमुन्-
ण्वुलौ क्रियायाम्-१३।३।१०।' इति वुल । '६२८। अकेनोर्भविष्यदाधमर्ण्ययोः
।२।३।७०।' इति प्रतिषेधः ॥
 
६७१ - राक्षसेन्द्रस्य संरक्ष्यं मया लव्यमिदं वनम् ॥'
 
इति संचिन्त्य सदृशं नन्दनस्या ऽभनक् कपिः १२९
राक्षसेत्यादि — इदं वनमशोकवनिकाख्यं राक्षसेन्द्रस्य संरक्ष्यं रक्षार्हम् ।
'२८२२ । अर्हे कृत्य । ३।३।१६९। २८७२ । ऋ-हलोत् ।३।१।१२४ ।' तन्मया
लव्यं लवनीयम् । '६२९। कृत्यानां कर्तरि वा ।२।३।७१।' इति षष्ठीतृतीये कर्तरि
भवतः । इत्येवं संचिन्त्य कपिर्नन्दनस्य वनस्य सदृशं तुल्यं । '६३० । तुल्यार्थैः
।२।३।७२ ।' इति पक्षे षष्ठी । अभनक् भन्नवान् । भञ्जेर्लङि '२५४४ । नान्नलोपः
॥ ६॥ ४॥२३॥' इति नलोपे हड्यादिलोपे जश्त्वे चर्वे च रूपम् ॥
 
६७२–राघवाभ्यां शिवं, दू॒तस् तयोर॑हमि॑िति ब्रुवन् ॥
 
--
 
हितो भनज्मि रामस्य, कः किं ब्रूते ऽत्र राक्षसः, १३०
राघवाभ्यामित्यादि — राघवाभ्यां रामलक्ष्मणाभ्यां शिवं भद्गमस्तु । तयो-
हनूमान् दूतो हितो रामस्य भनज्मीदं वनम् । एवं च क्रियमाणे को भवतां
मध्ये राक्षसः किं ब्रूते इत्येवं ब्रुवन् । बभञ्ज पवनात्मजो रिपुवनमिति वक्ष्यमा
णेन संबन्धः । राघवाभ्यां शिवं हितो रामस्येति '६३१॥ चतुर्थी चाशिष्य - ।२।-
३।७३ ।' इत्यादिना षष्टी चतुर्थ्यो ॥
 
इति विभक्त्यधिकारः ॥