This page has not been fully proofread.

२२६ भट्टि· काव्ये – द्वितीयेऽधिकार काण्डे लक्षण रूपे तृतीयो वर्गः,
 
तवेत्यादि - हे मैथिलि ! तवोदशायिका परिपाट्या शयनं यादी राक्षसी-
भिः सहेत्यर्थात् । '३२८८१ पर्यायार्हणोत्पत्तिषु ण्वुच् ।३।३।११११' यावन्न
चेतयन्ति न प्रतिबुध्यन्ते तावत् प्रतिसंदिश्यतां प्रतिसंदेशो दीयताम् । शार्ङ्गस्य
भर्तुः शार्ङ्ग धनुर्धारयतो रामस्य । तव शार्ङ्गस्येति यथाक्रमं '६२३ । कर्तृ-कर्मणोः
कृति ।२।३।६५।' इति पष्टी ॥
 
६६६ - पुरः प्रवेशमा॑श्चर्यं बुवा शाखा- मृगेण सा ॥
 
चूडा - मणिम॑भिज्ञानं ददौ रामस्य संमतम् ॥ १२४ ॥
पुर इत्यादि - शाखामृगेण मर्कटेन पुरो लायाः दुष्प्रवेशायाः प्रवेशः
तमाश्चर्यमद्भुतं बुवा सा सीता चूडामणिमभिज्ञानं ददौ सर्वमुक्तमस्य संभाव्यत
इति । '६२४। उभयप्राप्तौ कर्मणि॥२।३।६६ ॥ इति षष्ठी । प्रवेश इत्युभयप्राप्तौ
कृति लङ्का-हनुमतोः कर्मकर्तृत्वात् । रामस्व संमतं प्रियम् । '३०८९ । मतिबुद्धि
-।३।२।१८८।' इत्यादिना वर्तमाने निष्ठा । '६२७ । न लोक । २।३।६९ । इति
पष्टीप्रतिषेधे ग्राप्ते '६२५ । तस्य च वर्तमाने ।२।३।६७ ।' इति षष्ठी ।
६६७ - रामस्य शयितं भुक्तं जल्पितं हसितं स्थितम् ॥
 
प्रक्रान्तं च मुहुः पृष्ट्वा हनूमन्तं व्यसर्जयत् ॥१२५॥
रामस्येत्यादि-
६ - रामस्य अभिज्ञानं दत्त्वा शयितादिकं मुहुः पृष्ट्वा हनूमन्तं
व्यसर्जयत् प्रेषितवती । तस्य शयितुं शयनस्थानं किं भूमौ शेते अन्यत्रेति वा ।
भुक्तं भोजनस्थानं किं गृहे भुङ्क्ते मुनिजनगृहे वेति । जल्पितं मन्त्रस्थानं किं
रहसि मन्त्रयते प्रकाशे वेति । हसितं हसनस्थानं किं शृङ्गारवस्तूनि हसति वीर-
वस्तूनि वेति । स्थितं निवासस्थानं किं गुहायां तिष्ठत्युत तरुतले वेति । प्रान्तं
प्रचक्रमणस्थानम् । '२६६६ । अनुनासिकस्य ।६।४।१५।' इत्यादिना दीर्घः । किं
अङ्गने क्रम्यते अन्यत्र वेति । एषां ध्रौव्यगतिप्रत्यवसानार्थत्वात् । '३०८७१ को-
अधिकरणे च ।३।४।७६॥ इति तः । तस्य प्रयोगे '६२६ । अधिकरणवाचिनश्च
।२।३।६८।' इति षष्ठी ॥
 
६६८ - असौ दधर्दभिज्ञानं
 
चिकीर्षुः कर्म दारुणम् ॥
गामुको ऽप्य॑न्तिकं भर्तुर्
 
मनसा ऽचिन्तयत् क्षणम् ॥ १२६ ॥
 
असावित्यादि — असौ हनुमान् दधत् धारयन्नभिज्ञानं चिह्नम् । '६२३।
कर्तृ-कर्मणोः कृति ।२।३।६५॥ इति षष्ठ्यां प्राप्तायां '६२७ । न लोक-।२।३।६९ । '
इति लप्रयोगे प्रतिषेधः । ल इति शाननादयो गृहीताः । दारुणमशोक-वनिका-
अनादिकं कर्म चिकीर्षुः कर्तुमिच्छुः । उकारप्रश्लेषात् पछ्याः प्रतिषेधः । भर्तुः