2023-02-15 17:22:23 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके 'ऽशोक वनिका भङ्गो नामाष्टमः सर्गः- २२५
६६२ - रावणस्यैह रोक्ष्यन्ति कपयो भीम - विक्रमाः, ॥
धृत्या नाथस्व वैदेहि !, मन्योरु॑ज्जासयाऽऽत्मनः १२०
रावणस्येत्यादि – इह लङ्कायां कपयो भीमविक्रमाः असह्यपराक्रमाः राव-
णस्य रोक्ष्यन्ति सरोगं रावणं करिष्यन्ति । भीमविक्रमा इति गुणप्रधानो निर्दे-
शः । ततश्च विक्रमे रुजः भावकर्तृकत्वात् '६१५॥ रुजार्थानां भाववचनानामज्वरेः
।२।३।५॥ इति षष्ठी । अतो हे वैदेहि ! धृत्या नाथस्व आशंसन्त्र । धृतिं
लभस्वेत्यर्थः । '६१६। आशिपि नाथः ।२।३।५५॥ इति कर्मणि पष्ठी । आशिपि
नाथ इत्युपसंख्यानात्तङ् । मन्योरुज्जासयात्मनो मन्युं नाशय । ११८५१॥ जसु
हिंसायां ताडने ।' चौरादिकस्य हिंसार्थत्वात्तेन '६१७१९ जासि-निग्रहण - ।२।३।५६।'
इति कर्मणि षष्ठी ॥
६६३ - राक्षसानां मयि गते रामः प्रणिहनिष्यति ॥
प्राणानाम॑पणिष्टाऽयं रावणस् त्वामिहा॑नयन् ॥ १२१॥
-
राक्षसानामित्यादि – मयि गते रामो राक्षसानां प्रणिहनिष्यति राक्षसान्
मारयिष्यति । पूर्ववत् कर्मणि षष्ठी । निग्रहण इति संघातविगृहीत विपर्यस्तग्रह-
णमित्युक्तम् । '२२८५। नेर्गद- ।८।४।१७।' इत्यादिना णत्वम् । किंच प्राणाना-
मपणिष्टायमिति अयं रावणस्त्वामिहानयन् प्राणानपणिष्ट विक्रीतवान् । '६१८।
व्यवहृ-पणोः समर्थयोः ।२।३।५७॥ इति षष्ठी । 'प्राणानामपणायिष्ट' इति
पाठान्तरम् । तदयुक्तं, स्तुत्यर्थस्य पणेस्तत्र ग्रहणात् '२३०३ । गुपू-धूप-।३।१।२८।
इत्यादिना आयप्रत्ययो न भवति ॥
-
"
६६४ - अदेवीद् वन्धु-भोगानां, प्रादेवीददा॑त्म-संपदम् ॥
शत कृत्वस् तवैकस्याः स्मरत्य॑हो रघूत्तमः ॥१२२॥
अदेवीदित्यादि – न केवलं प्राणानपणिष्ट बन्धुभोगानामदेवीत् बन्धुभो-
गान् विक्रीतवान् । '६१९ । दिवस्तदर्थस्य ।२।३।५८॥ इति षष्टी । दिवो व्यव-
हारार्थत्वात् । प्रादेवीदात्मसंपदं विक्रीतवान् । '६२० । विभाषोपस ।२।३।५९॥
इति पक्षे द्वितीया । प्रशव्देन युक्तत्वात् । रामानुरागं पुनदर्शयन्नाह । शतकृत्व
इति बहुत्वोपलक्षणार्थम् । '२०८५ । क्रियाभ्यावृत्तिगणने कृत्वसुच् ।५।४।१७'
तवैकस्याह्नो रघूत्तमः स्मरति । '६१३ । अघीगर्थ- । २।३।५२ । इति षष्ठी । अह्न
इति एकस्मिन्नप्यह्नि । '६२२ । कृत्वोऽर्थप्रयोगे काले अधिकरणे । २।३।६४।
इति षष्ठी ॥
एवं तामाश्वास्य संदेशं दापयितुमाह -
६६५
-
तर्वोपशायिका यावद् राक्षस्यश् चेतयन्ति न ॥
प्रतिसंदिश्यतां तावद् भर्तुः शार्ङ्गस्य मैथिलि ! १२३