This page has not been fully proofread.

भट्टि-काव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे तृतीयो वर्गः,
 
दर्शनीयेत्यादि — तत्र दिव्यास्वपि स्त्रीपु मध्ये दर्शनीयतभाः स्त्रियः पश्य-
न् । '६३८। यतश्च निर्धारणम् ।२।३।४१॥ इति सप्तमी । दर्शनीयतमत्वेन गुणेन
पृथक्करणात् भुजङ्गेभ्यो ऽपि व्यालतमान् हिंखान् राक्षसान् व्यस्यन् अपक्षि-
पन् । '६३९। पञ्चमी विभक्ते ।२।३।४२।' इति पञ्चमी । भुजङ्गेभ्यो राक्षसानां
विभागात् प्राप्तो देव्याः पादमूलमित्यर्थात् ॥
 
२२४
 
किमवस्थो राम इत्याह-
६५९ - भवत्यामु॒त्सुको रामः प्रसितः संगमेन ते ॥
 
मघासु कृत-निर्वापः पितृभ्यो मां व्यसर्जयत् ॥११७॥
भवत्यामित्यादि — भवत्यां त्वयि उत्सुकः उन्मनाः रामः । तव संगमेन
प्रसितः प्रसक्तः । '६४१ । प्रसितोत्सुकाभ्यां तृतीया च ।२।३॥१४।४।' इति चका-
रात्सप्तमी । मवाभिर्युक्तः कालः तत्समीपे चन्द्रमसो वर्तमानत्वात् । १२०४॥
नक्षत्रेण युक्तः कालः ।४।२।३।' इत्यण् । तस्य '१२०५ । लुबविशेषे १४॥२॥४॥'
इति लुप् । तन्मिन् काले पितृभ्यः कृतनिर्वाप : दत्तदान: मां व्यसर्जयत् ।
'६४२१ नक्षत्रे च लुषि । २(३४५१' इति सप्तमी । तत्रापि १२९४ । लुपि युक्त-
वयक्तिवचने ।१।२।५१॥ इति स्त्रीलिङ्ग-बहुवचने भवतः । व्यसर्जयदिति विश-
व्दात् '५३२। प्रातिपदिक- ।२।३।४६।' इत्यादिना प्रातिपदिकमात्रे प्रथमा ॥
संदेहनिवृत्त्यर्थं चाभिज्ञानं दर्शयन्नाह -
 
६६० - अयं मैथिल्य॑भिज्ञानं काकुत्स्थस्या ऽङ्गुलीयकः ॥
भवत्याः स्मरता ऽत्यर्थमर्पितः सादरं मम ॥ ११८ ॥
अयमित्यादि – काकुत्स्थस्यायमङ्गुलीयकोऽभिज्ञानं चिह्नमयमभिज्ञानमिति
लिङ्गाधिके प्रातिपदिकमात्रे प्रथमा । मैथिलीति संवोधनादिके '५३३॥ संबोधने
च ।२।३।४७ ।' इति । सामन्त्रितं संबुद्धिश्चात्रैव द्रष्टव्यम् । काकुत्स्थस्येति '६०६ ।
षष्टी शेषे ॥२।३।५०।' इति षष्ठी । भवत्या अत्यर्थं स्मरता सादरमर्पितम् । '६१३॥
अधीगर्थ-।२।३।५२।' इत्यादिना स्मरणार्थे कर्मणः शेषत्वविवक्षायां पष्ठी ॥
६६१ - रामस्य दयमानो ऽसाव॑ध्येति तव लक्ष्मणः ॥
 
"
 
उपास्कृषात राजेन्द्रावा॑गमस्यैह, मा त्रसीः ॥११९॥
रामस्येत्यादि
— असौ लक्ष्मणो रामस्य दयमानो रामं रक्षन् शुचं मा
कार्षीरिति । दयतेः कर्मणि षष्ठी । तवाध्येति त्वां स्मरति । '६१३ । अधीगर्थ-
।२।३।५२॥ इति षष्टी । आश्वासनार्थमाह -
ह-मा त्रसी: उद्वेगं मा कार्षी: । त्रसे-
रीदित्वान्निष्ठायामिप्रतिषेधात् सिच इद भवति । यतो राजेन्द्रौ रामलक्ष्मणौ ।
इहागमस्यागमनस्य । भावे अप् । उपास्कृषातां प्रतियत्नं कृतवन्तौ । आगमनस्य
निश्चितत्वात् तस्यैव सुग्रीवसख्येन गुणाधानात् तेन '६१४ । कृञः प्रतियत्ने ।२।३-
५३।' इति कर्मणि षष्टी । प्रतियत्ले लुङ् तङ् सुद ॥