This page has not been fully proofread.

काव्ये -द्वितीयेऽधिकार
काण्डे लक्षण रूपे तुतीयो वर्गः
 
६५७-५-० दक्षिणेना ऽहं सरितो ऽद्रीन वनानि च ॥
अतिक्रम्या ऽम्बुधिं चैव पुंसाम॑गममा॑ह॒ता ॥१०८ ॥
दण्डकानित्यादि-दण्डकानामदूरे या दक्षिणा दिक् तस्यामिति । १९ -
८४ । एनबन्यतरस्याम् । ५।३।३५।' इति सप्तम्यन्तादेनप् प्रत्ययः । तदन्तेन योगे
'६१०। एनपा द्वितीया ।२।३।३१॥ इति द्वितीया । दक्षिणेन दण्डकानां दक्षि-
णस्यां दिशि । सरितो ऽगीनू वनानि च अम्बुधिं चातिक्रम्य पुंसामगममगम्यम् ।
'३२३४ । ग्रह-वृ-ह-निश्चि गमश्च ।३।३।५८।' इत्यप् । अहमाहृता आनीता ।
तत्कथमवैदित्यचिन्तयत् ॥
 
६५१ पृथङ् नभस्वतश् चण्डाद् वैनतेयेन वा विना ॥
 
-
 
२२२
 
गन्तुर्मुत्सहते नैह कश्चित् किमुत वानरः ॥१०९ ॥
पृथगित्यादि–नभस्वतो वातात् चण्डात् पृथक् वायुं त्यक्त्वा । वैनतेयेन
वा विना गरुडं वा वर्जयित्वा । '६०३। पृथग्विना ।२।३।३२।' इत्यादिना तृती-
पञ्चम्य । इह लङ्कायां कश्चित् गन्तुं नोत्सहते किमुत वानरः ॥
६५२ - इति चिन्ता-वर्ती कृच्छ्रात् समासाद्य कपि-द्विपः ॥
मुक्तां स्तोकेन रक्षोभिः प्रोचे - 'ऽहं राम-किङ्करः ११०
इतीत्यादि – एवमुक्तेन प्रकारेण चिन्तावतीं कपिद्विपो हनूमान् । कृच्छ्रा
समासाद्य कथम प्युपगम्य । अहं रामकिङ्करः रामप्रेषणकर इति प्रोचे । मुक्तां
स्तोकेनाल्पेन रक्षोभिः कर्तृभिः । '६०४ । करणे च स्तोकाल्प-।२।३।३३ ।' इत्या-
दिना तृतीयापञ्चम्यौ । कृच्छ्र-स्तोकयोरसत्वत्रचनयोः करणत्वात् ॥
 
यदि त्वं रामकिङ्करः कासावित्याह-
६५३-विप्रकृष्टं महेन्द्रस्य न दूरं विन्ध्य पर्वतात् ॥
 
ना ऽनभ्याशे समुद्रस्य तव माल्यवति प्रियः ॥१११॥
विप्रेत्यादि – माल्यवति पर्वते तव प्रियो रामः महेन्द्रस्य पर्वतस्य विप्रकृष्टं
दूरं । बिन्ध्यपर्वताञ्च न दूरम् । '६११॥ दूरान्तिकार्यैः षष्ठ्यन्यतरस्याम् ।२।३-
३४ । ' इति षष्ठी-पञ्चम्यौ । महेन्द्रपर्वत - विन्ध्ययोर्दूरविप्रकृष्टयोस्तु '६०५ । दूरा-
न्तिकार्येभ्यो द्वितीया च ।२।३।३५॥ इति द्वितीया । नानभ्याशे न दूरे समु
द्रस्य । '६११। दूरान्तिकार्यैः । २।३।३४॥ इति षष्ठी । माल्यवति '६३३ । सप्त-
म्यधिकरणे - ।२।३।३६ ।' इति सप्तमी । चकाराद्दूरान्तिकार्थेभ्यश्च । तेनानभ्याश
इति सप्तमी ॥
 
६५४ - अ-संप्राप्ते दश-प्रीवे प्रविष्टो ऽहमिदं वनम् ॥
 
तस्मिन् प्रतिगते द्रष्टुं त्वामुपास्य॑चेतितः ॥ ११२ ॥
असमित्यादि — दशमीचे दशवदने असंप्राप्ते अप्रविष्टे अहमचेतितः
सम् इदं वनमशोकवनिकाख्यं प्रविष्ट इति । तस्मिन् प्रतिगत्ते व द्रष्टुमुपाकं-