2023-02-15 17:22:22 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके 'ऽशोक-वनिका भङ्गो' नामाष्टमः सर्गः २२१
योदाहृता न पञ्चमी । वियोगस्य गुणपदार्थत्वात् । किमिति संकथां प्रास्तावीदि-
त्याह – हेतोर्बोधस्य मैथिल्याः । एष रामदूत इति मैथिल्या बोधो ऽवगमः स्या-
त्। '६०७१ षष्टी हेतुप्रयोगे ।२।३।२६।' इति वोधशब्दस्य षष्टी । प्रास्ता-
वीदिति '२३८५॥ स्तु-सु-धूभ्यः परस्मैपदेषु ।७।२।७२।' इतीट् । ८२२६८। नेटि
१७।२।४।' इति हलन्तलक्षणाया वृद्धेः प्रतिषेधः नेगन्तलक्षणायाः ॥
६४६ - तं दृष्ट्वा ऽचिन्तयत् सीता - 'हेतोः कस्यैष रावणः ॥
अवरुह्य तरोरारादेति वानर-विग्रहः ॥ १०४ ॥
तमित्यादि – वं हनूमन्तं रामं स्तुवन्तं दृष्ट्वा सीता अचिन्तयत् । कस्य हेतोः
रावणो वानरविग्रहः सन् ऐति आयाति । आपूर्वस्येणो रूपम् । '६०८ । सर्वना-
म्नस्तृतीया च ।२।३।२७।' इति पष्टी । किंशब्दस्य सर्वनामत्वात् । आरात्
अन्तिके । तरोरिति '५९५। अन्यारात्- ।२।३।२९। इत्याराच्छन्दयोगे पञ्चमी ।
अवरुह्यावतीर्येति । अवरोहणापेक्षया ह्यपादाने पञ्चमी । अपेक्षाया यौगपद्याभा-
वात् । 'उपपदविभक्तेः कारकविभक्तिर्बलीयसी' आराद्योगे न वर्तते ॥
६४७ - पूर्वस्मादन्य-वद् भाति भावाद् दाशरथिं स्तुवन्, ॥
?
ऋते क्रौर्यात् समायातो मां विश्वासयितुं नु किम् ? ॥
पूर्वस्मादित्यादि - पूर्वमाद्भावणादन्यवद्भाति ज्ञायते । अन्येन तुल्यं वर्तते
इति कृत्वा अन्यशब्दयोगे पञ्चमी । यतो भावात् स्नेहाद्दाशरथिं स्तुवन् । किं नु
क्रौर्याहते क्रौर्य वर्जयित्वा । ऋतेशब्दयोगे पञ्चमी । मां विश्वासयितुं संभावयितुं
किमागत इत्यचिन्तयत् ॥
६४८ - इतरो रावणादेष राघवाऽनुचरो यदि, ॥
स- फलानि निमित्तानि प्राक् प्रभातात् ततो मम. १०६
इतर इत्यादि — यदि रावणादितरः प्रतियोगी राघवानुचरः राघवार्थकारी
इतरयोगे पञ्चमी । ततो मम सफलानि स्वमलक्षणानि दर्शनादीनि निमित्तानि ।
प्राक् प्रभावात् आदित्योदयात्पूर्वस्मिन् काले । अन्यस्य हि प्रभातादुत्तरकालं
सफलानि । अञ्चूत्तरपदयोगे पञ्चमी ॥
६४९ - उत्तराहि वसन् रामः समुद्राद् रक्षसां पुरम् ॥
-
अवैल लवण-तोयस्य स्थितां दक्षिणतः कथम् १०७
उत्तराहीत्यादि — रामदूतो ऽयमिति न संभाव्यते । यतः समुद्रादुत्तरा या
दिक् तस्यामुत्तराहि वसन् रामः । आहि च दूरे उत्तराञ्चेति । तत्राहिप्रत्ययान्तेन
उत्तराहिशब्देन योगे समुद्रादिति पञ्चमी । लवणतोयस्य लवणसमुद्रस्य दक्षि-
णतो दक्षिणस्यां दिशि स्थितां रक्षसां पुरीं लङ्कां कथमवैत् ज्ञातवान् । दक्षिणत
इति '१९७८। दक्षिणोत्तराभ्यामतसुच् ।५।३।२८॥ तदन्तेन योगे '६०९ । षष्ठ्य-
तसर्थप्रत्ययेन ।२।३।३०।' इति षष्टी ।