2023-02-15 17:22:22 by ambuda-bot
This page has not been fully proofread.
२२० भट्टि- काव्ये - द्वितीयेऽविकार-काण्डे लक्षण-रूपे तृतीयो वर्गः,
तृणायेत्यादि–अथानन्तरं राक्षसीर्वदन्तीः त्रिजटा रावणस्वसा अवदत्
उक्तवती । तृणाय मत्वा तृणमिव संगणय्य । '५८४ । मन्यकर्मण्यनादरे - २।३।१७'
इति चतुर्थी । तत्र 'कुत्सितग्रहणं कर्तव्यम्' इत्युक्तम् । इह मा भूत् तृणं मत्वे-
ति । किमवदत्, आत्मानं हत मारयत । दुर्वृत्ताः दुराचाराः । स्वमांसः कुरुता-
शनमिति करणे तृतीया ॥
किमर्थमेवमाहेत्याह
६४२ - अद्य सीता मया दृष्टा सूर्य चन्द्रमसा सह ॥
स्वप्ने स्पृशन्ती मध्येन तनुः श्यामा सुलोचना. १००'
अद्येत्यादि – स्वप्ने मया अद्य सीता दृष्टा । कर्तरि तृतीया । सूर्य स्पृशन्ती
चन्द्रमसा सह । सहयोगे तृतीया । सूर्याचन्द्रमसाविति रामलक्ष्मणाविति भावः ।
मध्येन तनुः तन्वी । ५६६ । इत्थंभूतलक्षणे ।२।३।२१॥ तृतीया '५०२ । वोतो
गुणवचनात् ।४।१।४४ ।' इति ङीवभावपक्षे रूपम् । श्यामा वर्णेन । सुलोचना
शोभननेत्रा ॥
६४३-तास् तथा तर्जिताः सर्वा मुखैर् भीमा यथाऽऽगतम् ॥
ययुः सुषुप्सवस् तल्पं भीमैर् वचन-कर्मभिः ॥१०१ ॥
ता इत्यादि-
--ता राक्षस्यस्तया त्रिजटया तर्जिता भसिताः । सुपुप्सवः स्वप्तु-
मिच्छवस्तरूपं शयनीयं ययुर्गताः । यथागतं यतो यतस्तल्पादुत्थाय गताः । '६६१॥
यथाऽसादृश्ये ।२।१।७।' इति वीप्सायामव्ययीभावः । मुखैभमा रौद्भाः
मुखानां विकृतत्वात् । १५६५ । येनाङ्गविकारः ।२।३।२०॥ इति तृतीया । भीमै
र्वचनकर्मभिः उपलक्षिताः । इत्थंभूते तृतीया ॥
६४४ - गतासु तासु मैथिल्या संजानानो ऽनिऽऽत्मजः ॥
आयातेन दऽऽस्यस्य संस्थितो ऽन्तर्हितश् चिरम् ॥
गतास्वित्यादि — तासु राक्षसीपु गतासु । अनिलात्मजो हनूमान् 'रामसं-
कथां प्रास्तावीत्' इति वक्ष्यमाणेन संबन्धः । मैथिल्या संजानानः इयं सेत्यव-
गच्छन् । '५६७। संज्ञो ऽन्यतरस्याम्- ।२।३।२२।' इति कर्मणि तृतीया । '२७१९ ।
सं-प्रतिभ्याम् - 1१।३।४६ । इनि तङ् । शास्यस्यायातेनागमनेन हेतुना चिरम-
न्तर्हितो निलीनः स्थितः । ५६८ । तो ।२।३।२३॥ इति तृतीया ॥
६४५
ऋणाद् वद्ध इवो॑न्मुक्तो वियोगेन ऋतु-द्विषः ॥
हेतोर् बोधस्य मैथिल्याः प्रास्तावीद् राम-संकथाम् ॥
ऋणादित्यादि — ऋणाद्धेतोर्बद्ध इवोन्मुक्तो यथा स्थानान्तरं गतवान् ।
'६०१॥ अकर्तर्घृण –।२।३।२४।' इति पञ्चमी । ऋणस्याकर्तृहेतुत्वात् । ऋणेन
बन्धित इवेति नोकम् । अप्रयोजककर्तृत्वाद्दणस्य । उन्मुक्तः ऋतुद्विषो रावणस्य
वियोगेन विश्लेषेण । '६०२ । विभाषा गुणे स्त्रियाम् ।२।३।२५।' इति पक्षे तृती-