2023-02-15 17:22:21 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य रूपे कथानके 'ऽशोक वनिका भङ्गो' नामाष्टमः सर्गः- २१९
६३९ गते तस्मिन् समाजग्मुर् भयाय प्रति मैथिलीम् ॥
राक्षस्यो, रावण - प्रीत्यै क्रूरं चौचुरलं मुहुः ॥ ९७ ॥
.
गत इत्यादि — तस्मिन् रावणे गते सति राक्षस्यः समाजग्मुः संभूय गताः ।
'२६९९। समो गम्वृच्छि–।१।३।२९॥ इत्यादिना आत्मनेपदं न भवति । आङा
व्यवहितत्वात् । मैथिलों प्रति लक्ष्यीकृत्य भयाय सीतायै भयं दातुम् । '५८१३
क्रियार्थोपपदस्य च कर्मणि स्थानिनः ।२।३।१४।' इति चतुर्थी । दातेः क्रियार्थी-
पपदस्य स्थानिनः प्रयुज्यमानस्य भयं कर्म । क्रिया चात्र समागमः । तत्रोपपदं
क्रियार्थमिति क्रूरं च भयानकम् । मुहुः प्रतिक्षणं अलं पर्याप्तमूचुः उक्तवत्यः ।
रावणमीयै रावणस्यैवं प्रीतिः स्वादिति । '५८२ । तुमर्थाच्च भाववचनात् ।२।३।-
१५॥' इति चतुर्थी । क्रियायां क्रियार्थायामिति तुमुना समानार्थत्वात् । भावव-
चनाश्वेत्यनेन विहितस्य क्तिनः क्रियार्थ उपपदं क्रूराभिधानम् ॥
६४० - 'रावणाय नमस्कुर्याः, स्यात् सीते ! स्वस्ति ते ध्रुवम् ॥
अन्यथा प्रातराशाय कुर्याम त्वाम॑लं वयम् ॥ ९८ ॥
रावणायेत्यादि
— हे सीते ! रावणाय नमस्कुर्या: रावणं नमस्कुरु । एवं च
सति ते तुभ्यं स्वस्ति कल्याणं ध्रुवं स्यात् । युष्मच्छब्दस्य चतुर्थ्येकवचनान्तस्य
तेआदेशः । नमस्कृत्वेति पाठान्तरम् । तन्त्र नमस्कृत्वा स्थितायै तुभ्यमित्यध्या.
हृत्य योज्यम् । अन्यथा यसमानकर्तृकत्वात् क्त्वाप्रत्ययो न घटते । नमस्कृत्येति
पाठान्तरम् । साक्षात्प्रभृतिषु नमःशब्दस्य विकल्पेन गतिसंज्ञा । गत्यभावपक्षे
नित्यं गतिसमासाभावे ल्यबादेशः । १५४ । नमस्पुरसोर्गत्योः ।८।३।४० । इति
विसर्जनीयस्य सकारादेशश्च न संभवतीति । अन्यथेति यदि न नमस्कुर्या: तदा
अलं प्रातराशाय प्रातभजनाय त्वां कुर्याम वयमित्यूचुः । '२२०० । नित्यं ङितः
।३॥४।१९९१ । इति सलोपः । रावणायेत्यादिषु १५८३ । नमः स्वस्ति । २।३।१६।'
इत्यादिना चतुर्थी ॥
६४१ - तृणाय मत्वा ताः सर्वा वदन्तीस् त्रिजटा ऽवदत् ॥
'आत्मानं हत दुर्वृत्ताः ! स्व-मांसैः कुरुता ऽशनम् . ९९
१ – अत्र 'उपपदविभक्तेः कारकविभक्तिर् बलीयसी' इति वार्तिकबलात् कर्मणि द्वितीयैव
प्राप्ता, परं च तस्याप्यपवादभूतेन '५८१ । क्रियार्थोपपदस्य च कर्मणि स्थानिनः ।२।३।१४।१
इति सूत्रेण चतुर्थ्येव भवति । तेन 'नमस्कुर्मो नृसिंहाय, स्वयंभुवे नमस्कृत्य' इत्यादिवत्
'रावणाय -' इत्यस्य रावणं प्रसादयितुमित्यर्थो युक्त इति ज्ञेयम् । एवं सति 'नमःस्वस्ति-
इत्यादिना चतुर्थी' इति टीकाकृदुक्तं प्रमादगर्भितम् । केवलं 'नमः- स्वस्ति' इत्याकारकशब्दयोग
एव तस्या विधानादिति भाति । किंतु 'प्रातराशाय त्वां अलं कुर्याम' इत्यत्र तु अलंशब्दयोगात्
'नमः स्वस्ति-' इत्यनेनैवेति । अत्र युक्तायुक्तविवेचनं तु विद्वदधीनमित्यलम् ।