2023-02-15 17:22:21 by ambuda-bot
This page has not been fully proofread.
२१८ भट्टि काव्ये – द्वितीयेऽधिकार
काण्डे लक्षण-रूपे तृवीयो वर्गः,
'धिकम्–।२।३।९।' इत्यादिना उतनी । यश्चैवं स रामस्ते क्षयमाकर्ता करिष्यति ।
अत्र कर्मण्येव द्वितीया । न '५४८। कर्मप्रवचनीययुक्ते - १२१३१८।' इति
१७७४ । विभाषा कृञि १११४।१२॥ इति या संज्ञा तस्या गत्युपसर्गसंज्ञाबात्र-
नार्थत्वात् । संज्ञापक्षे '३९७८ । तिङि चोदात्तवति -1८1१/७१।' इति निघाता-
भावो द्रष्टव्य इति । एवमुक्त्वा दशाननं मैथिली तूष्णीमासांचक्रे तूष्णीं स्थि
तवती ।
इति कर्मप्रवचनीयाधिकारः ॥
इतः प्रभृति 'अनभिहिते' इत्यधिकृत्य विभक्तिविधानमाह -
६३६ - ततः खङ्गं समुद्यम्य रावणः क्रूर-विग्रहः ॥
P
वैदेहीम॑न्तरा क्रुद्धः क्षणर्मूचे विनिश्वसन् ॥ ९४ ॥
—
तत इत्यादि — ततः सीतावचनादुत्तरकालं रावणः खड्नं समुद्यम्य उत्क्षिप्य ।
कर्मणि द्वितीया । ॠरविग्रहः टुप्प्रेक्ष्यत्वात् । वैदेहीमन्तरा क्रुद्धः वैदेह्या
वधे कुपितः । '५४५ । अन्तराऽन्तरेण युक्ते ।२।३।४।' इति पथ्यपवादाद्वितीया ।
अन्तराशब्दो मध्यमाधेयप्रधानमाचष्टे, आधेयश्चात्र वधः, क्षणमूचे उक्तवान् ।
उक्तिक्रियया क्षणस्य कालस्य साकल्येन संवन्धात् ५५८। कालाध्वनोः ।२।३।५॥
इति द्वितीया । विनिश्वसन् क्रोधात् ॥
६३७ - 'चिरेणा ऽनुगुणं प्रोक्ता प्रतिपत्ति पराङ्मुखी ॥
न मासे प्रतिपत्तासे मां चेन्, मर्तासि मैथिलि ! ९५'
चिरेणेत्यादि - हे मैथिलि ! चिरेणापि कालेनानुगुणमनुकूलं मया
प्रोक्तापि सती प्रतिपत्तिपराङ्मुखी । उक्तस्यार्थस्यानुष्ठानं प्रतिपत्तिः तस्यां परा-
सुखी इदानीं यदि त्वं मासे त्रिंशहिवसलक्षणे मां न प्रतिपत्तासे नाङ्गीकरि-
प्यसि तदा मर्तासि मरिष्यसि । उभयमपि लुटि रूपम् । तत्र चिरेण प्रोक्ता
इति । '५६३। अपवर्गे तृतीया ।२।३।६॥ विवक्षितार्थप्रकाशनं फलं तस्य प्राप्तौ
तक्रियापरिसमाप्तिरपवर्ग इति । मां मासे न प्रतिपत्तास इति '६४३। सप्तमी-
पञ्चम्यौ कारकमध्ये ।२।३।७।' इति सप्तमी । कर्मक: कारकयोर्मध्यत्वात्
मासस्य ॥
६३८ - प्रायुत राक्षसीर् भीमा मन्दिराय प्रतिव्रजन् ॥
'भयानि दत्त सीतायै सर्वा यूयं कृते मम ॥ ९६ ॥
प्रायुङ्केत्यादि — रावणो राक्षसीमा भयानकाः प्रायुक समादिष्टवान् ।
लङि रूपम् । मन्दिराय प्रतिव्रजन् गृहाय प्रतिव्रजन् । १५८५० गत्यर्थकर्मणि-
।२।३।१२।' इत्यादिना तु चतुर्थी । कर्मप्रवचनीयादिसूत्रचतुष्टयेनोदाहृतं कर्मप्र-
वचनीयाधिकार एव दर्शितत्वात् । किमादिशदित्याह—सर्वा यूयं सीतायै भयानि
दत्त । लोटि रूपम् । चतुर्थी संप्रदाने । संपूज्यादृत्य प्रकर्षेण दीयत इति
संप्रदानम् । मम कृते मदनुग्रहनिमित्तम् ॥