This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'ऽशोक - वनिका भङ्गो' नामाष्टमः सर्गः – २१७
 
वाते ।८।१।७१॥' इति निघाताभावो दृष्टव्यः । पञ्चमी च 'प्रश्नाख्यानयोः' इत्यु-
पसंख्यानाद्भवति । किमिति हनिष्यतीति चेत् यतो भवता न सूक्तं प्रशस्तमु-
क्तम् । '५५५ । सुः पूजायाम् ।१।४।१४।' इति कर्मप्रवचनीयत्वम् । '३७८३ ।
यतिरनन्तरः ।६।२।४९।' इति स्वराभावः । अत्युग्रमतिरौद्रम् । अतिरामं राम-
मधिक्षिप्य । काकुत्स्थमधन्यमिति । '५५६। अतिरतिक्रमणे च ॥४।१५।
इति कर्मप्रवचनीयत्वम् । चकारात्पूजायां च तत्र चाप्युक्तमिति प्रयोगः । हे
मदोद्धृत ! ॥
 
६३३ - परिशेषं न नामा ऽपि स्थापयिष्यति ते विभुः ॥
 
5
 
अपि स्थाणुं जयेद् रामो, भवतो ग्रहणं कियत्. ९१
परीत्यादि — रामो विभुः प्रभुः ते परिशेषं नामापि संज्ञामपि न स्थापयि
ध्यति, किमु देहम् । '५५७ अपिः पदार्थ ।१।४।१६।' इत्यादिना पदार्थों कर्मप्र-
वचनीयसंज्ञा । पदस्य देहस्याप्रयुज्यमानस्यार्थे अपिशब्दो वर्तते । अपि स्थाणुं
जयेद्रामो यमाराध्याधिपत्यं प्राप्तवानसि तमपि स्थाणुं महादेवं जेतुं संभाव्यते
भवतो ग्रहणं कियत् । यस्त्वेव न भवति । अत्र संभावनायां कर्मप्रवचनीयत्वम् ।
संभावने लिङ् । उपसर्गबाधनत्वात्संज्ञायाः '२२७० । उपसर्गात्सुनोति - ।८।३।६५॥
इत्यादिना पत्वं न भवति ॥
 
६३४ - अपि स्तुहा॑पिसेधा ऽस्मा॑स् तथ्य॑मुक्तं नराऽशन !, ॥
अपि सिवेः कृशानौ त्वं दर्प, मयपि यो ऽभिकः ९२
अपीत्यादि — हे नराशन ! मया तथ्यमुक्तं यन्नामापि न स्थापयिष्यतीति ।
अस्मानपि स्तुहि साधूक्तमिति प्रशंस । '२२०११ सेपिच्च । ३ । ४ ।८७१' इति
अपिति ङित्त्वाद्गुणाभावः । अपिसेध निगृहाण यथेच्छं तथा क्रियताम् । मया तु
सत्यमेवोक्तमिति भावः । अन्नान्ववसर्गे कामचारानुज्ञाने कर्मप्रवचनीयसंज्ञा ।
किंच कृशानावौ दर्प अपि सिञ्चः क्षरेस्त्वम् । अत्र गर्हायां लिङि रूपम् । यो-
ऽयं मय्यपि मद्विषयेऽपि अभिकः कामयिता । १८७४ । अनुकाभिका- 1५/२/-
७४ ।' इत्यादिना निपातितः । उपसर्गसंज्ञाबाधनार्थत्वात् स्तौति-सेधि-सिचां
पव्वं न भवति ॥
 
६३५ - अधिरामे पराक्रान्तमधिकर्ता स ते क्षयम् ॥'
 
इत्युक्त्वा मैथिली तूष्णीमसांचक्रे दशाननम् ॥ ९३॥
अधीत्यादि – पराक्रान्तस्य शौर्यस्य राम ईशितेत्यस्मिन्नर्थे अधिरामे परा-
क्रान्तम् । ३०९० । नपुंसके भावे क्तः ।३।३।११४॥ ६४४ । अधिरीश्वरे
३।१।४।९७।' इति स्वस्वामिसंबन्धे अधेः कर्मप्रवचनीयसंज्ञा । '६४५ । यस्माद-
१ – '३९ । व्योमकेशो भवो भीम: स्थाणू रुद्र उमा-पतिः ।' इति ना० अ० । स्थाणुः
कीले हरे पुमान्' इति कोशान्तरं च । २–'५९। अग्निर्-' इत्यादित आरभ्य '६१ ।
आश्रयाशो बृहदू-भानुः कृशानुः पावकोऽनलः । इति ना० अ० ॥
 
भ० का० १९