This page has not been fully proofread.

२१६ भट्टि काव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे तृतीयो वर्गः,
 
मी । उपशब्दस्याधिक द्योतनात् । किमर्थं कनकमृगच्छलेन । वीरौ रामलक्ष्मणौ
अपवाह्य अन्यतो नीत्वा । मामिहाहरः लङ्कामानीतवान् ॥
 
६२९ - 'उप-शूरं न ते वृत्तं कथं रात्रिंचरा॒ऽधम ! ॥
 
यत् संप्रत्यपलोकेभ्यो लङ्कायां वसतिर् भयात् ॥८७॥
उपेत्यादि — हे रात्रिंचराधम ! कथं ते वृत्तं चरितं नोपशूरं शुरेभ्यो न
हीनम् । ५५१॥ उपोऽधिके च ॥४॥८७।' इति चकाराद्धीने उपशब्दस्य कर्म-
प्रवचनीयसंज्ञा । यद्यस्मात् संयना भयालायां जलपर्वतदुर्गायां वसतिः ।
वसेरतिः 'वहि-वस्यर्तिभ्यश्चित्' इत्यौणादिकः । अपलोकेभ्यो लोकान् वर्जयित्वा ।
८५९६। अप- परी वर्जने ।१।४।८८।' इति कर्मप्रवचनीयसंज्ञायां '५९८ पञ्चम्य
पाङ्-परिभिः ।२।३।१०।' इति पञ्चमी ॥
 
६३० - आ राम-दर्शनात् पाप ! विद्योतस्व स्त्रियः प्रति ॥
सद् - वृत्तानंनु दुर् वृत्तः परस्त्रीं जात-मन्मथः ॥ ८८ ॥
 
आ रामेत्यादि-हे पाप ! आ रामदर्शनात् रामदर्शनं यावत् । ५९७।
आङ् मर्यादावचने ११४१८९॥ इति पूर्ववत्पञ्चमी । स्त्रियः प्रतियोपितो लक्ष्यी-
कृत्य । विद्योतस्त्र स्थिरो भव । स्त्रियः इति '३०२ । वाऽम्-शसमोः ।६।४।८० ।
इति इयङ् । '५५२ । लक्षणेत्थंभूत ।१।५।९० ।' इत्यादिना कर्मप्रवचनीयत्वम् ।
सद्वृत्ताननु दुर्वृत्तः सदाचारिणामुपरि दुर्वृत्त इत्यर्थः । इत्थंभृतास्यानेऽनोः
कर्मप्रवचनीयत्वम् । परम्त्रीं जातमन्मथः । अन्न वीप्सायां कर्मप्रवचनीयत्त्रम् ॥
६३१ - अभि द्योतिष्यते रामो भवन्तम चिरादिह, ॥
 
उद्वर्ण-वाणः संग्रामे यो नारायणतः प्रति ॥ ८९ ॥
अभीत्यादि — भवन्तमभि भवन्तं लक्ष्यीकृत्य । ८५५५॥ अभिरभागे ॥१॥४/-
९११' इति कर्मप्रवचनीयत्वम् । अचिरादिह लङ्कायां रामो द्योतिष्यते असह्य-
तेजाः भविष्यति । य उद्द्भूर्णवाण: संग्रामे नारायणतः प्रति तेन तुल्यः । ८५९९/
प्रतिः प्रतिनिधि-प्रतिदानयोः ।१।४।१२।' इति प्रतिनिधौ कर्मप्रवचनीयत्वम् ।
८६००। प्रतिनिधि-प्रतिदाने च यस्मात् ।२।३।११।' इति पञ्चमी । प्रतियोगे
पञ्चम्यास्तसिः । मुख्यसदृशः प्रतिनिधिः ॥
 
६३२ - कुतो ऽधियास्यसि क्रूर ! निहतस् तेन पैत्रिभिः ॥
 
न सूक्तं भवता ऽत्युग्रम॑तिरामं मदो॒द्धत ! ॥ ९० ॥
कुत इत्यादि — हे क्रूर ! तेन रामेण उद्भूर्णबाणेन पत्रिभिः शरैः निहतः सन्
कुतोऽधियास्यसि केन प्रकारेण निःसरिष्यसि । ८५५४ । अधि-परी अनर्थकौ'
।१।४।१३।' इति अधेः कर्मप्रवचनीयसंज्ञा । धात्वर्थव्यतिरेकार्थस्यानभिधाना-
दनर्थकत्वम् । संज्ञा च गत्युपसर्गसंज्ञाबाधनार्था । तेन ' ३९७८ । तिङि चोदात्त-
१ – १३१३ । ग्रावाणौ शैल-पाषाणौ पत्रिणौ शर-पक्षिणौ ।' इति ना० अ०