This page has not been fully proofread.

3
 
तथा लक्ष्य-रूपे कथानके 'ऽशोक-वनिका भङ्गो नामाटमः सर्गः- २१५
६२५ - प्रीतो ऽहं भोजयिष्यामि भवती भुवन-त्रयम् ॥
किं विलापयसेत्यर्थ, पार्श्वे शायय रावणम् ॥८३ ॥
प्रीत इत्यादि — अहं प्रीतः सन् भुवनत्रयं तत्समुत्थं भोज्यं भोक्तुं योग्यं
भवतीं भोजयिष्यामि । प्रत्यवसानार्थत्वात्कर्मसंज्ञा । प्रत्यवसानमभ्यवहारः ।
अकर्त्रभिप्राये '२५६४ । णिचश्च ।१।३।७४ ।' इत्यात्मनेपदं न भवति । विलपन्तं
विविधं भाषमाणं किं विलापय सेऽत्यर्थ नाहं त्वामिच्छासीति वाणा । अत्र
शब्दकर्मत्वात् कर्मसंज्ञा । कर्त्रभिप्राये णिचश्चेत्यात्मनेपदम् । तस्मादिदं प्रार्थ-
ये – पार्श्वे रावणं शायय । अनाकर्मकत्वात्कर्मसंज्ञा ॥
 
६२६ - आज्ञां कारय रक्षोभिर् मा प्रियाण्युपहारय, ॥
 
3
 
कः शक्रेण कृतं नैच्छेद॑धिमूर्धानम॑ञ्जलिम् ॥ ८४ ॥
इति कारकाधिकारः ॥
 
आशामित्यादि- रक्षांसि त्वदाज्ञां कुर्वन्त्येव । कारय प्रियाणि च त्वत्संव
न्धीनि मामुपहरन्तमुपहारय उत्पादय । '५४१॥ हृ- क्रोरन्यतरस्याम् ॥१।४।५३॥
इति कर्मसंज्ञा । शक्रेण कृतं विरचितं अञ्जलिमधिमूर्धानं अधिगतः प्राप्तो मूर्धा
येनेति । को नेच्छेत् ५५९॥ स्वतन्त्रः- ११॥४॥५४॥ इति कर्तृसंज्ञा । शक्रेण प्रणतो-
ऽहमित्यर्थः । प्रयोज्यकर्त्रा नोदाहृतोण्यन्तावस्थायामुदाहृतत्वात् ॥ इति कारका-
विकारः ॥
 
इतः प्रभृति कर्मप्रवचनीयमधिकृत्याह-
६२७ – वचनं रक्षसां पत्युर॑नु॒ क्रुद्धा पति- प्रिया ॥
 
पापाऽनुवासितं सीता रावणं प्राब्रवीद् वचः ॥ ८५ ॥
वचनमित्यादि — रक्षसां पत्यू रावणस्य वचनमनु लक्ष्यीकृत्य । ८५४७३
अनुलक्षणे ॥४।८॥ इति कर्मप्रवचनीयसंज्ञायां द्वितीया । क्रुद्धा सती सीता ।
पतिप्रिया पतिः प्रियो यस्या इति । रावणें प्राब्रवीद्वचो वक्ष्यमाणम् । पापानुवा-
सितं पापेन संयुक्तम् । '५४९॥ तृतीयार्थे ।१।४।८५।' इत्यनेन कर्मप्रवचनीय संज्ञायां
द्वितीया । पापमन्ववसित इति । द्वितीयेति योगविभागात् सः सुप्सुपेति वा ॥
६२८ - 'न भवान॑नु रामं चेदु॑प शूरेषु वा, ततः ॥
 
-
 
अपवाह्य च्छलाद् वीरौ किमर्थं मार्मिहा ऽहरः, ॥८६॥
नेत्यादि – यदि भवान्नानुरामं रामान्न हीन इत्यर्थः । '५५० । हीने ।१॥४१-
८६ ।' इत्यनेन कर्मप्रवचनीयसंज्ञा । अनुशव्दश्च स्वहीनार्थद्योतकः । हीनश्चोत्कृष्टा-
पेक्षः । उपशूरेषु वा शुरेभ्यो वा यद्यधिको भवान् । '५५१। उपोऽधिके च ॥१॥४॥-
८७ । ' इति चकाराद्धीने उपशब्दस्य कर्मप्रवचनीयसंज्ञा । यस्मादधिकमित्यनेन सप्त-
१-८७४। प्रसभं तु बलात्कारो हठो, ऽथ स्खलितं छलम् । इति ना० अ० । 'छलं छद्म-
स्खलितयोः' इति हैमश्च ।