This page has not been fully proofread.

२१४ भट्टि काव्ये - द्वितीचेऽविकार - काण्डे लक्षण-रूपे तृतीयो वर्गः,
६२१ - आस्स्व साकं मया सौधे, माऽधिष्ठा निर्-जनं वनम् ॥
मा ऽधिवात्सीर भुवं, शय्यामधिशेष्व स्मरोत्सुका. ७९
आस्स्वेत्यादि – मया साकं साधं सौधे धवलगृहे आस्स्व तिष्ठ । आसे-
लौटि रूपम्
'६७२ । आधारोऽधिकरणम् ॥१४।४५॥ इत्यधिकरणसंज्ञायां
सतमी । मा Sधिष्ठा निर्जनं वनम् । ८५४२ । अधि-शी-स्थासां कर्म ।१।४।४।१
इत्यधिकरणे कर्मसंज्ञा । लुङि रूपम् । माऽधिवात्सीः भुवं भूमौ मा शयिष्ठाः ।
माङि लुङि रूपम् । ५४४ । उपान्वध्याङ्वसः ॥१४।४८।' इति अधिकरणे
कर्मसंज्ञा । किंतु । शय्यामधिशेष्व । शीडो लोटि रूपम् । '५४२ । अधिशीङ्-
॥४।४६॥ इति कर्मसंज्ञा । स्मरोत्सुका कामार्थिनी ॥
 
६२२ - अभिन्यविक्षथास् त्वं मे यथैवाऽव्याहता मनः ॥
 
तवाऽप्य॑ध्यावसन्तं मां मा रौत्सीर् हृदयं तथा ॥ ८०॥
अभीत्यादि
– यथैव त्वमव्याहता अनिवारिता सती मे मम मनः अभिन्य
विक्षथाः अभिनिविष्टासि । लुङि रूपम् । '३६८३ । नेविंशः ।१।३।१७।' इति
दङ् । '५४३। अभि-नि-विशश्च ॥४।४७ ।' इत्यधिकरणे मनसः कर्मसंज्ञा । तथा
त्वमपि त्वद्धृदयमध्यावसन्तं मां मां रौत्सीः मा निवारय । रुङि रूपम् ।
८५४४। उपान्वध्याङ्- 1918।१८।' इति हृदयस्य कर्मसंज्ञा ॥
६२३ मा ऽवमंस्था नमस्यन्तर्म-कार्य-ज्ञे ! जगत्-पतिम् ॥
संदृष्टे मयि काकुत्स्थमं धन्यं कामयेत का ? ॥८१॥
 
मैत्यादि- हे अकार्यज्ञे अविशेषज्ञे ! मां जगत्पतिं नमस्यन्तं माऽवसंस्थाः ।
लुङि रूपम् । '४३५॥ कर्तुरीप्सिततमम् ॥१॥४॥४९॥ इति कर्मसंज्ञा । अवमान-
क्रियया कर्तृसंबन्धिन्या जगत्पतेराप्तुमिष्टत्वात् । संदृष्टे मयि काकुत्स्थमधन्यं
मन्दभाग्यं का कामयेत का इच्छेत् । नैवेत्यर्थः । १५३८ तथायुक्तं चानीप्सितम्
।१।४।५०।' इति कर्मसंज्ञा । येनैव प्रकारेण कर्तुरीप्सिततमं क्रियया युक्तं तेनैवे-
प्सितादन्यस्य रामस्य प्रयुज्यमानत्वात् ॥
 
६२४ - यः पयो दोग्धि पाषाणं, स रामाद् भूतिमानुयात् ॥
 
रावणं गमय प्रीतिं वोधयन्तं हिताऽहितम् ॥ ८२ ॥
य इत्यादि - यथा पाषाणात् पयो न संभवति तथा रामादपि विभूतिरिति
नैराइयं दर्शयति । पयसः पूर्वेणैव कर्मसंज्ञा । पाषाणस्य १५३९ । अकथितं च
॥१॥४॥५१॥' इत्यनेन । रावणं गमय प्रीतिं भवत्या सह प्रीतिं गच्छन्तं गमय
श्रीतिम् । स्वयमेव हिताहितं भवतीं बुध्यमानां बोधयन्तम् । '५४७ । गति बुद्धि-
॥१॥४॥५२॥ इत्यादिना कर्मसंज्ञा । गति- बुद्ध्योरण्यन्तावस्थायां तयोः कर्तृत्वात् ॥
 
१-४१। विभूतिर भूतिरैश्वर्यमणिमादिकमष्टधा ।" इति ना० अ० ।