This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'ऽशोक-वनिका भङ्गो नामाष्टमः सर्गः – २१३
 
ये नाक्रुध्यत् तां प्रति कोपं न कृतवान् । नाप्यसूयत दोषाविष्करणलक्षणामसूयां
न कृतवान् । क्रुध्यतिसूयत्योर्दिवादिकयोरुदात्तेङितोर्लङि प्रयोगे '५७५॥ क्रुध-
द्रुह–११॥४॥३७॥' इत्यादिना सम्प्रदानम् ॥
 
,
 
६१८ - 'संक्रुध्यसि मृषा किं त्वं दिदृशुं मां मृगेक्षणे ! ॥
ईक्षितव्यं पर स्त्रीभ्यः स्व-धर्मो रक्षसाम॑यम् ॥ ७६ ॥
संक्रुध्यसीत्यादि - किं त्वं शुभाशुभे दिदृशुं द्रष्टुमिच्दुं मां हे मृगेक्षणे !
संक्रुध्यसि । '५७६। क्रुध-दुहोरुपसृष्टयोः-।१।४।३८।' इति कर्मसंज्ञा । क्रुधे रुप
सर्गेण युक्तत्वात् । कुतस्ते परिज्ञानं यत्परस्त्रीपु शुभाशुभं निरूपयसि अन्यत्र
दुष्टाशयत्वात् । अथ कथं मृषा संक्रुध्यामीति चेदाह — ईक्षितव्यं परस्त्रीभ्यः का
शुभान शुभेति यदीक्षितव्यमीक्षणीयं तदयं स्वधर्मो रक्षसाम् । १५७७१ राधी-
क्ष्योर्यस्य विप्रश्नः ।१।४ । ३९॥ इति सम्प्रदानसंज्ञा । यतः स्त्रीविषये विविधस्य
प्रश्नस्य क्रियमाणत्वात् ॥
 
,
 
६१९ - शृण्वन्द्भ्यः प्रतिशृण्वन्ति मध्यमा भीरुं ! नो॑ौत्तमाः ॥
गृणद्भ्यो ऽनुगृणन्त्य॑न्ये ऽकृता॒ऽर्था, नैव मद्-विधाः ॥
शृण्वय इत्यादि — अनेनात्मनः प्रभावं दर्शयति । शृण्वन्द्भ्यः प्रार्थयमा-
नेभ्यः स्वामिन्निदं क्रियतामिति मध्यमाः प्रभवः प्रतिशृण्वन्ति ओमित्युपगच्छ-
न्ति । हे भीरु ! नोत्तमा मादृशाः । ते हि स्वातन्त्र्यात्स्वयमेव हितं प्रतिपद्यन्त
इति भावः । ८५७८। प्रत्याभ्यां श्रुवः पूर्वस्य कर्ता ।१।४।४०।' इति सम्प्रदा-
नसंज्ञा । पूर्वस्याः प्रार्थनक्रियायाः प्रार्थयितुः कर्तृत्वात् । अन्ये प्रभवोऽकृतार्थाः
अलब्धलाभाः गृणद्भ्यः अनुग्राहास्य भृत्यस्य कस्यचिन्न स्तुतिं कुर्वद्भ्यो मन्त्रिभ्यः
अनुगृणन्ति तानू प्रोत्साहयन्ति । अनुगृणीत अनुगृणीतेति ममानुगतो भव-
तीति नैव मद्विधा अनुगृणन्ति कृतार्थत्वात् । '१५९५ । गृ शब्दे' इत्यस्य प्रयोगे
८५७९ । अनु प्रतिगृणश्च ।१।४।४।१॥ इति सम्प्रदानसंज्ञा । गृणातेः स्तुतिक्रिया-
पेक्षया कर्तृत्वात् ॥
 
६२० - इच्छ स्नेहेन दीव्यन्ती विषयान् भुवनेश्वरम् ॥
 
3
 
संभोगाय परिक्रीतः कर्तास्मि तव ना ऽप्रियम् ॥ ७८ ॥
इच्छेत्यादि — ईशं पूजितं भुवनेश्वरं त्रिलोकविजयिनमिच्छ अङ्गीकुरु ।
आत्मानमुद्दिश्य स्नेहेन प्रेम्णा । १५६० । साधकतमं करणम्- ।१।४।४२॥ इति
करणसंज्ञा । दीव्यन्ती क्रीडन्ती विषयान् शब्दादिभिरित्यर्थः । १५६२ । दिवः कर्म
च - ।१।४।४३ ।' इति करणसंज्ञापवादात् कर्मसंज्ञा । संभोगाय परिक्रीतः त्वद्वि-
षयभोगेन परिक्रीत इत्यर्थः । ८५८० । परिक्रयणे सम्प्रदानम्- ।१।४।४। इति
सम्प्रदानत्वम् । तव नाप्रियं कर्तास्मि न करिष्यामि ॥
 

 
१–'५६६। विशेषास् त्वद्गना भीरुः कामिनी वामलोचना ।" इति ना० अ० । 'भीरुररावें
त्रिलिङ्गः स्याद् वरयोषिति ।" इति मेदिनी च ।