This page has not been fully proofread.

-
 
२१२ भट्टि काव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे तृतीयो वर्गः,
६१४ - रामादधीत - संदेशो वायोर् जातश् च्युत-स्मिताम् ॥
प्रभवन्तीमि॑िवा॑दित्याद॑पश्यत् कपि- कुञ्जरः ॥ ७२ ॥
रामादित्यादि — सत्कृत्य अधीतसंदेशो गृहीतसंदेशः कपिकुञ्जरः । ८७९२१
आख्यातोपयोगे ।१।४।२९॥ इत्यपादानसंज्ञा । रामस्याख्यातृत्वात् । सावधानतया
संदेशग्रहणात् नियमपूर्वकविद्यावत् संदेशग्रहणम् । वायोजत इति '५९३ । जनि-
कर्तुः-।१।४।३०।' इत्यपादानसंज्ञा । जन्यर्थस्य जन्मनः कर्ता हनुमान् तस्य वायुः
प्रकृतिः कारणम् । च्युतस्मितां शोकाक्रान्तत्वात् । प्रभवन्तीमिवादित्यात् ।'५९४॥
भुवः प्रभवः ।१।४।३१।' इत्यनेन भवत्यर्थस्य सीतायाः कर्तृभूतायाः प्रथमत
उपलभ्यमानत्वात् । अतः प्रभव आदित्यः तस्याम्तेजस्वित्वात् ॥
 
६१५ रोचमानः कुदृष्टिभ्यो रक्षोभ्यः प्रत्तवान् श्रियम् ॥
श्लाघमानः पर स्त्रीभ्यस् तत्राऽऽगाद् राक्षसाऽधिपः ॥
रोचमान इत्यादि- - तन्त्र तस्यामशोकवनिकायां राक्षसाधिपो रावणः आ-
गात् आगतः । रोचमानः कुदृष्टिभ्यः त्यक्तत्रयीधर्मत्वात् । ये कुदृष्टयः कुबुद्धयः
तान् स्वविषये स्पृहावतः कारयन्नित्यर्थः । १५७१ । रुच्यर्थानां प्रीयमाणः 1918/-
३३।' इति सम्प्रदानसंज्ञायां चतुर्थी । रुचेरभिलाषय तन्नावस्थानात् । कुदृष्टयः
प्रीयमाणाः । रक्षोभ्यः श्रियं विभूतिं प्रत्तवान् । '५६९३ कर्मणा यमभिप्रैति-
।१।४।३२।' इति सम्प्रदानम् । ददातिक्रियया राक्षसानामभिप्रीयमाणत्वात् ।
लावमानः परस्त्रीभ्यः युष्मद्वषये ऽस्माकं ठाघेति परकलत्राणि ज्ञापयितुभेष-
यन् । '५७२॥ श्लाघ-हुङ्- ।१।४।३४।' इत्यादिना सम्प्रदानत्यम् । श्लाघया बहु-
मानेन ज्ञापयितुमिप्यमाणत्वात्तासाम् ॥
 
ww
 
६१६ - अशप्त निहुवानो ऽसौ सीतायै स्मर- मोहितः, ॥
धारयन्निव चैतस्यै वसूनि प्रत्यपद्यत ॥ ७४ ॥
अशप्तेत्यादि – सीतायै निहुवानः क्रौर्यादिकं न मेऽस्तीति सीतां ज्ञापयि-
तुमेषयन्नित्यर्थः । तस्यै सीतायै अशपत् । शपथं सीतां ज्ञापयितुमैपदित्यर्थः ।
किमित्येवमाह । स्मरमोहितः । अत्र शपथापह्नुतिक्रियया सीतामाज्ञापयितुमि-
प्यमाणत्वात् । पूर्ववत् सम्प्रदानसंज्ञा । किंचास्यै सीतायै स्वामिनीभूतायै वसूनि
द्रव्याणि प्रत्यपद्यत अङ्गीकृतवान् । धारयन्निव गृहीतवित्त इव । अत्र '५७३।
धारेरुत्तमर्णः ॥४।३५।' इति सीतायाः कदाचिदुत्तमर्णया तुल्यत्वात् ॥
६१७ - तस्यै स्पृहयमाणो ऽसौ बहु प्रियर्मभाषत, "
 
सानुनीतिश् च सीतायै ना ऽक्रुध्यन्, नाप्य॑सूयत. ७५
तस्यामित्यादि — असौ राक्षसाधिपः स्पृहयमाणः सीतामातुमिच्छन् बहु-
प्रियमभाषत वक्ष्यमाणम् । ८५७४ । स्पृहेरीप्सितः ।१।४।३६ ।' इति स्पृहयतेः
स्वार्थिकण्यन्तस्य प्रयोगे सीताया ईप्यमानत्वात् । सानुनीतिश्च सानुनयः सीता-