2023-02-15 17:22:20 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके 'ऽशोक-वनिका भङ्गो नामाष्टमः सर्गः - २११
६११ - 'निरवर्त्स्यन् न चेद् वार्ता सीताया, वितथैव नः ॥
अकल्प्स्यदु॑द्यतिः सर्वा', हनूमानि॑त्य॑चिन्तयत् ॥६९॥
-
इत्यात्मनेपदाधिकारः ।
निरवर्त्स्यन्नित्यादि — चेदिति यद्यर्थे । यदि सीताया वार्ता न निरवर्त्स्यत्
निर्वृतिं नायास्यत्, तदा वृथैव निष्फलैव नोऽस्माकमुद्यतिः सर्वा अयमुद्यमः
समुद्गलङ्घनादिकः। अकल्प्स्यत् अभविष्यत् । इत्येवं हनूमानचिन्तयत् । क्रिया-
तिपत्तौ ऌङ् । तत्र निरवर्त्स्यदिति '२३४७। वृद्भ्यः स्य-सनोः ।१॥३।९२१' इति
विभाषापरस्मैपदम् । अकल्प्स्यदिति '२३५१। लुटि च क्लृपः ।१।३।९३।' इति
चकारात् स्य-सनोरपि भवति विभाषापरस्मैपदम् । उद्यतिरिति यमेः '३२७२॥
स्त्रियां किन् ।३।३।९४॥ '२४२८ । अनुदात्त । ६।४।३७।' इत्यादिना अनु-
नासिकलोपः ॥ इत्यात्मनेपदाधिकारः ॥
इतः प्रभृति कारकमधिकृत्याह-
विशेषकम् ७०-७२–
६१२ - वृक्षाद् वृक्षं परिक्रामन् रावणाद् विभ्यतीं भृशम् ॥
शत्रोस् त्राणम॑ - पश्यन्ती-दृश्यो जनका॒ऽऽत्मजाम् ७०
वृक्षादित्यादि – तां जनकात्मजां सीतां स कपिकुञ्जरोऽपश्यदिति वक्ष्य-
माणेन संवन्धः । वृक्षात् वृक्षं परिक्रामन् गच्छन् । १५८६ । ध्रुवमपाये ऽपादा-
नम् । १।४।२४।' इत्यपादानसंज्ञायां पञ्चमी । रावणात् विभ्यतीं भृशं नस्यन्तीं
अत्यर्थं शत्रो रावणाद्वक्षामपश्यन्तीं यतो भयं ततः कुतो रक्षेति '५८८ । भीन्ना-
र्थानाम् – ।१।४।२५।' इत्यपादानसंज्ञा । अदृश्यः प्रच्छन्नो भूत्वा । २८५९ ।
ऋदुपध-।३।१।११०।' इत्यादिना क्यप् ॥
६१३ - तां पराजयमानां स प्रीते रक्ष्यां दशाऽऽननात् ॥
अन्तर्दधानां रक्षोभ्यो मलिनां म्लान-मूर्धजाम् ॥ ७१॥
तामित्यादि — प्रीतेः रावणसंबन्धिन्या पराजयमानां विमुखीभवन्तीम् ।
८५८९॥ पराजेरसोढः ।१।४।२६।' इत्यपादानत्वम् । असोढोऽर्थः प्रीतिः । रक्ष्यां
दशाननात् रावणविषये स्वयं निवार्यप्रसराम् । ५९०। वारणार्थानामीप्सितः
।१।४।२७।' इत्यपादानत्वम् । प्रवृत्तिविघातलक्षणया रक्षणक्रियया आत्मसंबन्धि-
न्या दशाननस्य व्याप्तुमभिप्रेतत्वात् । अन्तर्दधानां रक्षोभ्यः मा मां रक्षांसि
द्राक्षुरिति । ततश्च '५९१ । अन्तर्छौं येनादर्शनम् ॥१।४।२८।' इत्यपादानसंज्ञा ।
अन्तर्धिनिमित्तं हि रक्षोभिरात्मनो दर्शनस्यानीप्सितत्वात् । मलिनां शरीरेण
क्लानमूर्धजां मलिनकेशां बद्धवेणीत्वात् ॥
१- '१७८। वार्ता प्रवृत्तिर् वृत्तान्त उदन्तः स्यात् ।" इति ना० अ० ॥