This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'ऽशोक-वनिका - भङ्गो' नामाष्टमः सर्गः– २०९
 
अवादित्यादि – यस्यामशोकवनिकायां वायुवतः शनैर्मन्दमवात् वाति
स्म । तामाटेति वक्ष्यमाणेन संबन्धः । लतां नर्तयमानवत् नृत्यमिव कारयन् ।
नृतिश्चलने वर्तते । ततश्च । ८२७५३ । निगरण-।१।३।८७।' इत्यादिना परस्मै-
पहुं प्राप्तं । '२७५५। न पादमि-।१।३।८९।' इत्यादिना प्रतिषिद्धम् । ऋतवोऽन्यो-
न्यसंपदः परस्परस्य विभूती: नायासयन्त नोपपीडयन्ति स्म । संत्रस्ता रावणा-
तू । आइपूर्वाद्यसेः चित्तवत्कर्तृकत्वात् अणावित्यादिना परस्मैपदं प्राप्तं 'न पाद-
मि' इत्यादिना प्रतिषिद्धम् ॥
 
६०४ - ज्योत्स्ना ऽमृतं शशी यस्यां वापीर् विकसितोपलाः ॥
अपाययत संपूर्णः सदा दश मुखाऽऽज्ञया ॥ ६२ ॥
ज्योत्स्नेत्यादि — यस्यां रावणाज्ञया शशी सदा संपूर्ण : सन् ज्योत्स्नामृतं
वापीरपाययत पायितवान् । निगरणार्थत्वात्तिपि प्राप्ते न पादमीत्यादिना प्रति-
षिद्धे णिचश्चेति तङ् ॥
 
R
 
M
 
६०५ - प्रादमयन्त पुष्पेषु॒ यस्यां बेन्द्यः समाहृताः ॥
परिमोहयमाणाभी राक्षसीभिः समावृताः ॥ ६३ ॥
प्रादमयन्तेत्यादि – यस्यां बन्ध: समाहृताः समानीताः पुष्पेपुं कामं प्राद-
मयन्त शमितवत्यः । तन्मतस्याचरणात् । कीदृश्यः । परिमोहयमाणाभिः व्यामो-
हृयन्तीभिः राक्षसीभिः समावृताः परिवृताः । दमि-परिसुयोः अणावित्यादिना
प्राप्तस्य परस्मैपदय न पादमीत्यादिना प्रतिषेधे णिचश्चेत्यात्मनेपदम् ॥
६०६ - यस्यां वासयते सीतां केवलं स्म रिपुः स्मरौत् ॥
 
न त्वंरोचयता ऽऽत्मानं चतुरो वृद्धि मान॑पि ॥ ६४ ॥
यस्यामित्यादि — रिपुर्दशाननः स्मरात् कामाद्धेतोः केवलं निष्फलं यस्यां
सीतां वासयते स्म वासितवान् । न त्वरोचयत आत्मानं नैवात्मानमुपरोचितवा-
नू । चतुरोऽपि योषिदाराधनकुशलोऽपि । वृद्धिमानपि संपयुक्तोऽपि । रोचि-
वास्योरणावित्यादिना प्राप्तस्यापि च परस्मैपदस्य न पादमीति प्रतिषेधे णिच-
श्वेति तङ् ॥
 
६०७ – मन्दायमान-गमनो हरितायत्-तरुं कपिः ॥
 
1
 
द्रुमैः शकशकायद्भिर मारुतेना SSट सर्वतः ॥६५॥
मन्देत्यादि - कपिः सर्वतः सर्वत्र तामाट विजहार । यत्तदोर्नित्यसंबन्धा-
तामिति गम्यते । मन्दायमानगमनः मन्दीभवद्गमनः । कीदृशीम् । हरिताय -
त्तरुं शादलीभवद्वृक्षाम् । अप्राणिजातेश्चेत्यूङ् । द्रुमैरुपलक्षिताम् । कीदृशैः ।
 
१- २८२ वापी, तु दीर्घिका ।" २ बन्दिशालास्थिताः स्त्रिय इत्यर्थः । ८८४१
प्रग्रहोपग्रहौ बन्द्यां, कारा स्याद् बन्धनालये ।" ३ - २७ । मदनो मन्मयो मारः कामः
पञ्चशरः स्मरः । इति सर्वत्र ना० अ० ।