This page has not been fully proofread.

२०८ भट्टि- काव्ये – द्वितीयेऽधिकार काण्डे लक्षण-रूपे तृतीयो वर्गः,
 
-
 
'९७४ । ध्यै चिन्तायाम्' इत्यस्य लुङि रूपम् । नशिजन्योरकर्मकत्वात् '३७५४६
अणौ–११।३१८८।' इत्यनेन लिङः परस्मैपदम् । न बुधेत्यादिना जनीजूपित्यादिना ।
जनेर्मित्संज्ञायां ह्रस्वत्वम् ॥
 
."
 
६०० - दृष्ट्वा राघव - कान्तां तां द्रावयिष्यामि राक्षसान् ॥
तस्या हि दर्शनात् पूर्वं विक्रमः कार्य-नाश - कृत् ॥५८॥
दृष्ट्वेत्यादि - इयमसाविति राघवस्य कान्तां दृष्ट्वा द्भावयिष्यामि राक्षसान्
पलाययिष्यामि । अत्र अणावियनेन न बुधेत्यादिना तयाकर्मकस्य चित्तवत्कर्तृ-
कत्वात् । हि यस्मात् तस्याः सीताया दर्शनात्पूर्व विक्रमः कार्यस्य सीतादर्शन-
रूपस्य नाशकृत् ॥
 
६०१ - चिन्तयन्नित्यमुत्तुङ्गैः प्रावयन्तीं दिवं वनैः ॥
 
-
 
अशोक - वनिकामरांदपश्यत् स्तवकऽऽचिताम्. ५९
चिन्तयन्नित्यादि-इत्थं पूर्वोक्त प्रकारेण चिन्तयन्नारात्समीपे अशोकवनि-
कामपश्यत् । उत्तुङ्गैरुच्चर्वनैदिवमाकाशं प्रावयन्तीं व्याप्मुवानाम् । ८२७५२। बुध-
युध-।१।३।८६।' इत्यादिना तिप् । प्रवतेरकर्मकस्याचित्तवत्कर्तृत्वात् । अशोक-
वनिकायाश्चाचित्तवतीत्वात् । स्तबकाचितां अशोकपुष्पस्तवकैः छन्नाम् ॥
 
कुलकम् ६०-६४-
६०२ - तां प्राविशत् कपि- व्याघ्रस् तरूँन-चलयन् शनैः ॥
 
अ - त्रासयन् वन-शयान् सुशान् शाखाँसु पक्षिणः ६०
तामित्यादि – तामशोकवनिकां कपिण्यावः कपिर्थ्यात्र इव शनैर्मेन्द्र प्रा-
विशत् । तरूनचलयन् अकम्पयन् । चलेरकर्मकत्वाञ्चित्तवत्कर्तृकाढणावित्यनेन
च लटः परस्मैपदं न निगरणेत्यादिना । तद्धि तत्र सकर्मकार्थं अचित्तव कर्तृकार्य
चेत्युक्तम् । वनशयान् पक्षिणः शाखासु सुतान् अत्रासयन् । ८२७५४ । अणौ-
।१।३।८८।' इत्यनेन परस्मैपदम् । वने शेरत इति ८२९२९। अधिकरणे शेतेः
।३।२।१५।' इत्यच् । '९७६ । शय वास-वासिपु-।६।३।१८।' इत्यादिना सप्तम्या
विभाषा अलुक् ॥
 
६०३ - अवाद् वायुः शनैर् यस्यां लतां नर्तयमान-वत् ॥
नाऽऽयासयन्त संत्रस्ता ऋतवोऽन्योन्य संपदः ॥६१॥
 
"
 
१- '१११५
दूर-समीपयोः।'
 
उच्च-प्रांश॑न्नतो॒दयो॒च्छ्रितास् तुङ्गे ।" २–२४५१ । आरादू
३ – '३६४। स्याद्
गुच्छकस् तु स्तबकः, कुडूमलो
याम् ।' ४ – '३५३ । वृक्षो महीरुहः शाखी विटपी पादपसू तरुः ।
समे शाखा-लते, स्कन्धशाखा - शाले, शिफा जटे ।" इति सर्वत्र ना० अ० ।
 
मुकुलोऽस्त्रि-
५-३५९ ।