2023-02-15 17:22:19 by ambuda-bot
This page has not been fully proofread.
२०६ भट्टिकाव्ये – द्वितीयेऽधिकार काण्डे लक्षण-रूपे तृतीयो वर्गः,
W
५९२ ता हनूमान् पराकुर्वन्नगमत् पुष्पकं प्रति ॥
विमानं मन्दरस्या॑द्रेर॑नु॒कुर्वदि॑िव श्रियम् ॥ ५० ॥
ता इत्यादि - ता दिव्यनारी: पराकुर्वन्नपक्षिपन् । अगमत् । पुष्पकं प्रति
पुष्पकविमानं प्रति । येन पुष्पकविमानेन जगाम । कीदृशं । मन्दरस्यादेः श्रियम-
जुकुर्वदिव । '२७४५ । अनु-पराभ्यां कृञः ॥३२।७९। कर्नभिप्राये चात्मनेपदस्य
प्राप्तत्वात् ॥
युग्मम् ५१, ५२-
५९३ - तस्मिन् कैलास-संकाशं शिरैः- शृङ्गं भुज-द्रुमम् ॥
अभिक्षिपन्तमैक्षिष्ट रावणं पर्वत श्रियम् ॥ ५१ ॥
तस्मिन्नित्यादि- तस्मिन् विमाने रावणमैक्षिष्ट । कैलाससंकाशं कैलासतु-
ल्यम् । शिरःशुङ्गं शिरांसि शृङ्गाणीव यस्य । भुजद्रुमं भुजा द्रुमा इव यस्य ।
तं पर्वतस्य श्रियमभिक्षिपन्तं अभिभवन्तम् । '२७४६ । अभिप्रत्यतिभ्यः क्षिपः
।१।३।८०।' इति परस्मैपदम् । तस्य स्वरितेत्त्वात् कर्त्रभिप्राय आत्मनेपदं प्राप्तम् ॥
५९४ - प्रवहन्तं सौमोदं सुप्तं परिजनाऽन्वितम् ॥
।
मैंघोने परिमृष्यन्तमारंभन्तं परं स्मरे ॥ ५२ ॥
प्रवहन्तमित्यादि —–—सदामोढं कस्तूरिकाढिपरिमलं प्रवहन्तम् । '२७४७
प्राद्वहः । १।३।८१ ।' इति परस्मैपदं स्वरितेत्त्वात् । सुतं शयने संविष्टम्। परिजनान्वितं
पारिपार्श्विकाञ्चिष्टितम् । मघोने इन्द्राय परिमृप्यन्तं असूयन्तम् । '२७४८ । परे-
र्मृघः । १।३।८२।' इति परस्मैपदं । सृपेः स्वरितेत्त्वात् । ५७५ । क्रुष-द्रुह- ११॥४॥
३७ ।' इति सम्प्रदानसंज्ञायां चतुर्थी । स्मरे कामे परमत्यर्थ आरभन्तं सक्तिं कुर्वा -
णम्। '२७४९। व्याङ्परिभ्यो रमः । १।३१८३।' इति परस्मैपदम् । रमेरनुदात्तेत्त्वात् ।
५९५ - व्यरमत् प्रधनाद् यस्मात् परित्रस्तः सहस्र-दृक् ॥
।
क्षणं पर्यरमत् तस्य दर्शनान् मारुताऽऽत्मजः ॥५३॥
१–७८॥ अस्यो ( कुवेरस्य)द्यानं चैत्ररथं पुत्रस तु नलकूबरः, । कैलासः स्थान -
मलका पूर्, विमानं तु पुष्पकम् ।" इति ना० अ० । २ – श्रीर् वेषरचना शोभा
भारती सरल-द्रुमे । लक्ष्म्यां त्रि-वर्ग-संपत्तौ वेपोषकरणे मतौं ।" इति विश्व मेदिन्यौँ ।
३ – '१०३५ । निभ-संकाश-नीकाश-प्रतीकाशोपमादयः । इति ना० अ० 11
अस्मिन् 'शिरःश' पदे इवादेरुपमावाचकस्य साधारणधर्मस्य च लोपात् समासगा लुप्तो-
पमा — 'वादेर् लोपे समासे सा कर्माधार क्यचि क्यङि । कर्म-कर्णमुल्येतद् द्विलोपे क्विप्
समासगा ।' इति तलक्षणं काव्यप्रकाशे दशम उल्लासे दृश्यते । ५–१६४१ विमर्दोत्थे
परिमलो गन्धे जन-मनोहरे । आमोदः सोऽतिनिर्झरी, वाच्य लिङ्गत्वमा गुणात् ॥ ६-
(५८४) लोकस्थं टिप्पणं पश्यन्तु । ७–८६९। युद्धमायोधनं जन्यं प्रधनं
प्रविदारणम् ।' इति ना० अ० ॥