This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'ऽशोक-वनिका - भङ्गो नामाष्टमः सर्गः– २०५
दिश इत्यादि — दिशः द्योतयमानाभिः भासयमानाभिः । '२५६४। णिचश्च
।१।३।७४ ।' इति तङ् । दिव्यनारीभिः उत्तमाभिः प्रधाननायिकाभिराकुलं
व्याप्तम् । श्रियमनुत्तमामतिशयवतीं आयच्छमानाभिः स्वीकुर्वाणाभिः ।
'२७४२। समुदाइभ्यः - ।१।३।७५।' इति तङ् ॥
 
५८९ - नित्यमुद्यच्छमानाभिः स्मरसंभोग-कर्मसु ॥
 
जानानाभिरलं लीला-किलकिंचित-विभ्रमान् ॥४७॥
नित्यमित्यादि – स्मरसंभोगकर्मसु कामोपभोगक्रियासु । नित्यमुद्यच्छमा-
नाभिः उत्साहमानाभिः । लीला : स्त्रीणां शृङ्गारचेष्टाविशेषाः । अलं जानानाभिः ।
'२७४३। अनुपसर्गाज्ज्ञः ।१।३।७६ । इति तङ् । पूर्ववत्त । तथा चोक-
नू – 'विलास-लीला: किलकिंचितानि विव्वोक-मोहायित-विभ्रमाणि । विच्छित्त-
माकुट्टिमितेक्षितानि योज्यानि तज्ज्ञैः सुकुमारनृत्ते' इति । लक्षणं चैषां नाट्यशास्त्रे ॥
५९० - स्वं कर्म कारयन्न । स्ते निश्चिन्तो या झप-ध्वजः ॥
 
स्वाऽर्थं कारयमाणाभिर् यूनो मद-विमोहितान् ॥४८॥
स्वमित्यादि – स्वमात्मीयं मोहनादिकर्म दिव्यनारी: कारयन् अनुष्टापयन्
एप झषध्वजः कामदेवः निश्चिन्त आस्ते । ताभिराकुलमिति योज्यम् । ८५४१॥
हृ-क्रोरन्यतरस्याम् । १।४।१३।' इति द्विकर्मकता । यूनः स्वार्थ स्वप्रयोजनं मैथु-
नाख्यं कारयमाणाभिः आकुलम् । ता हनुमानिति वक्ष्यमाणेन संबन्धः । कीड-
शान् । मदविमोहितान् मधुपानमदपरवशान् । ताभिः ॥
 
कीदृशीभिरियाह-
५९१ - कान्ति स्वां वहमानाभिर्
यजन्तीभिः स्व-विग्रहान् ॥
नेत्रैरिव पिबन्तीभिः
 
पश्यतां चित्त - संहतीः ॥ ४९ ॥
 
कान्तिमित्यादि — स्वां कान्ति शोभां वहमानाभिः । यजन्तीभिः स्ववित्र-
हान् ददतीभिः कामिभ्यः । तत्र स्वं कर्मेति णिचश्वेत्यस्य विषयः । कान्ति स्वां
स्वविग्रहानिति स्वरितेत इत्यस्य विषयः । '२७४४ । विभाषोपपदेन प्रतीयमाने
।१।३।७७ ।' इति विभाषा आत्मनेपदम् ॥ इत्यात्मनेपदाधिकारः ॥ शेष-
भूतत्वात् परस्मैपदविधानमाह – नेत्रैरिति । पश्यतां चित्तसंहतीः । चि-
तसंदोहान् पिबन्तीभिरिव गृह्णन्तीभिरिव । '२१५९ । शेषात्कर्तरि परस्मैपदम्
 
११।३।७८।' ॥
 
१–'६३४ । अथ कलेवरम् । गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः । कायो देहः
क्लीत्रपुंसोः, स्त्रियां मूर्तिस् तनुस् तनूः ।' इति ना० अ० ॥
 
भ० का० १८