This page has not been fully proofread.

२०४ भट्टि काव्ये — द्वितीयेऽधिकार काण्डे 'लक्षण-रूपे तृतीयो वर्गः,
 
८ २५९६ । नित्यं स्मयतेः ।६।१।५७॥ इत्यास्वम् । गृहाद्गृहमाटीत् गतवान् । लुड़ेि
 
रूपम् ॥
 
५८५ - सीतां दिक्षुः प्रच्छन्नः सो ऽगर्धयत राक्षसान्, ॥
 
—-
 
अवञ्चयत मायाश च स्व-मायाभिर् नरद्विपाम्, ४३
सीतामित्यादि –स कपिः सीतां दिक्षुः सीतां द्रष्टुमिच्छुः प्रच्छन्नः राक्ष-
सानगर्धयत । व्यामोहयत् । स्वमायाभिश्च नरद्विषां मायाश्च अवञ्चयत अतिसंहि-
तवान् । '२७३९ । गृधि-वश्योः प्रलम्भने । १।३।६९ । इति तङ् ॥
५८६ – अपलापयमानस्य शत्रूस् तस्याऽभवन् मतिः ॥
 
'मिथ्या कारयते चारैर् घोषणां राक्षसा॒ऽधिपः' ॥४४॥
अपेत्यादि- - तस्य कपेः शत्रून् राक्षसान् अपलापयमानस्य न्यक्कुर्वतः ।
'२५२९ । विभाषा लीयतेः ।६।१।५।' इत्यावे '२५९२ । लियः सम्मानन ।१।३-
।७०।' इत्यादिना शालिनीकरणे न्यग्भावने आत्मनेपदम् । मतिरभवत् । कोह-
शीत्याह- मिथ्याकारयत इति । अयं राक्षसाधिपतिश्चारैर्दण्डवाहकैः यां घोषणां
पुनः पुनः कारयति जागृत जागृतेति तां मिथ्या कारयते येनाहमविज्ञात एव
प्रविष्टः । '२७४० । मिथ्योपपदात् कृञोऽभ्यासे ।१।३।७१ । इति तङ् । अभ्या-
सश्च पुनः पुनः करणम् ॥
 
कुलकम् ४५-४९-
५८७ - गूहमानः स्व-माहात्म्यम॑टित्वा मन्त्रि - संसदः ॥
 
नृभ्यो ऽपवदमानस्य रावणस्य गृहं ययौ ॥ ४५ ॥
 
-
 
गूहमान इत्यादि - स्वमाहात्म्यं स्वपराक्रमं गृहमान: आवृण्वन् । '२३५४॥
ऊदुपधाया गोहः ।६।४।८९ । इत्यूत्वम् । '२१५८ स्वरितजित:- 1१।३।७२।'
 
इति तङ् । अटित्वा मन्त्रिसंसदः शुकसारणादिगृहाणि गत्वा रावणस्य गृहं
ययौ । कीदृशस्य । नृभ्यो ऽपवमानस्य कुप्यतः असूयतो वा । '२७४१। अपा-
इदः । २।३।७३ ।' इति तङ् । नृभ्य इति '५७५॥ क्रुध-द्रुह-।१।४॥३७।' इति
सम्प्रदानसंज्ञायां चतुर्थी ॥
 
कीदृशं गृहमित्याह --
 
-
 
५८८ - दिशो द्योतयमानाभिर् दिव्य - नारीभिराकुलम् ॥
श्रियमा॑यच्छमानाभिरुत्तमाभिर॑नु॒त्तमाम् ॥ ४६ ॥
 
१८८७७९ । चार
 
च गुढ़-पुरुषश्, चाऽऽप्त-प्रत्ययितौ समौ ।' २-
'१८३ । आम्रेडितं द्विस्- त्रिरुक्तमुच्चैर् घुष्टं तु घोषणा " ३ – १७७० । मन्त्री बीस-
चिवोऽमात्यो, ऽन्ये कर्मसचिवास ततः ।" इति सर्वत्र ना० अ० ।
टीकंनमवलोकयन्तु । इति ॥
 
४ - (५६४) श्लोकस्थं