This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'ऽशोक-चनिका-भङ्गो' नामाष्टमः सर्गः- २०३
 
स्येति द्विवचनम् । पुरी लङ्का कासांचक्रे शोभते स्म । सौघैः सौधानां ज्योत्स्त्रया
चोद्भायमानत्वात् । '२२४०। आम्प्रत्ययवत् । १।३।६३।' इति तङ् ॥
५८१ - इन्दुं चषक - संक्रान्तर्मुपायुङ्ग यथाऽमृतम् ॥
 
प्रयुञ्जानः प्रिया वाचः समाजाऽनुरतो जनः ॥ ३९ ॥
इन्दुमित्यादि — एवं शोभितायां लङ्कायां समाजानुरतः पानगोष्टीरतो जनः
चषकसंक्रान्तं मद्यभाजने प्रतिबिम्बेन संक्रान्तमिन्दुमुपायुत उपभुक्तवान् ।
प्रतिविम्बावच्छिन्नस्य मद्यस्योपलक्ष्यमाणत्वादेवमुक्तम् । यथाऽमृतं अमृतमिव ।
प्रिया अनुकूला वाचः प्रयुञ्जानः अभिदधानः । २७३५ । प्रोपाभ्याम्-११।३।
६४ ।' इति तङ् ॥
 
५८२ - संक्ष्णुवान इर्वोत्कण्ठामुपाभुङ्ग सुरामलम् ॥
 
ज्योत्स्नायां विगलन् - मानसू तरुणो रक्षसां गणः ४०
संक्ष्णुवान इत्यादि — रक्षसां तरुणो गणः उत्कण्ठां प्रियासु संस्मरणं
संक्ष्णुवान इव समुत्तेजयन्निव । '२७३६ । समः क्ष्णुवः ।१।३।६५।' इति तङ् ।
ज्योत्स्नायां सुरां अलं पर्याप्तमुपाभुङ्ग अभ्याहृतवान् । '२७३७॥ भुजोऽनवने
।१।३।६६ ।' इति तङ् । विगलन्मानः ॥
 
५८३ मध्र्ध्वपाययत स्व॒च्छं सोत्पलं दयितता॒ऽन्तिके ॥
 
आत्मानं सुरता॒ऽऽभोग-विम्भोत्पादनं मुहुः ॥४१॥
मध्वित्यादि — कीदृशम् । मधु स्वच्छत्वात् सोत्पलतया सुरभित्वात् शोभनं
जातं यतः स्वयमात्मानं मुहुरपाययत पायितवत् । १२७३८ । रणौ १११३॥
६७ । ' इति तङ् । दयितान्तिके दयितस्य समीपे । सुरताभोगः सुरतविमर्दः
तत्र विश्रम्भः तस्योत्पादनं जनकम् । उत्पादयतीति २८४१॥ कृत्यल्युटो बहुलम्
।३।३।११३।' इति कर्तरि ल्युट् ॥
 
५८४ - अभीषयन्त ये शक्रं राक्षसा रण-पण्डिताः ॥
 
अविस्मापयमानस् तान् कपिरा॑टीद् गृहाद् गृहम्, ४२
अभीषयन्तेत्यादि — एवं रक्षःसु यथायथं चेष्टमानेषु ये राक्षसा रणपण्डिताः
संग्रामविज्ञाः शक्रमभीषयन्त भीषितवन्तः । '२५८४ । भी स्म्योर्हेतुभये ।१।३।-
६८।' इति तङ् । '२५९५ । भियो हेतुभये षुक् ।७।३।४० ।' भयग्रहणमुपलक्षणं
तेन स्मयतेरपि भवति । तानसौ कपिरविस्मापयमानः विस्मयमकारयन् ।
 
१-१०४० । चषकोऽस्त्री पानपात्रं सरकोऽप्यनुतर्पणम् ।" २ – १०० I
चन्द्रिका कौमुदी ज्योत्स्ना प्रसादस्तु प्रसन्नता ।' ३–१७८९॥ समौ विश्रम्भ-विश्वासौ
भ्रेपो भ्रंशो यथोचितात् ।' ४–४७१ इन्द्रो मरुत्वान् मघवा बिडौजाः पाकशासनः ।
वृद्धश्रुवाः शुनासीरः पुरुहूतः पुरन्दरः । जिष्णुर् लेखर्षभः शक्रः । इति सर्वत्र ना० अ० ॥