2023-02-15 17:22:19 by ambuda-bot
This page has not been fully proofread.
२०२ भट्टि काव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे तृतीयो वर्गः,
५७७ - अनुजिज्ञासतैवाऽथ लङ्का-दर्शनमि॑न्दुना ॥
तमोऽपहविमुक्तांऽशु पूर्वस्यां दिश्युदैयत ॥ ३५ ॥
अन्वित्यादि – अथैतस्मिन् प्रस्तावे इन्दुना चन्द्रेण उदैयत उदितम् । इणो
भावे लङि रूपम् । पूर्वस्यां दिशीति पूर्णेनेति दर्शयति । दृश्यते तत् दर्शनं
रूपम् । लङ्काया रूपमनुजिज्ञासतेव । पूर्वेण प्राप्तस्यात्मनेपदस्य '२७३२:
नानोर्झः ।१।३।५८।' इति प्रतिषेधः । तमोपहास्तमो ध्वंसमानाः विमुक्ताः
ग्रेरिता अंशवो यस्मिन् उदय इति ॥
-
.
५७८ - आशुश्रूषन् स मैथिल्या वार्ता हेर्म्येषु रक्षसाम् ॥
शीयमानाऽन्धकारेषु समचारीद-शङ्कितः ॥ ३६ ॥
आशुश्रूषन्नित्यादि –स कर्मेिथिल्याः सीताया वार्तामाशुश्रूषन् श्रोतुमि-
च्छन् । '२७३३। प्रत्याभ्यां श्रुवः ।१।३।५९।' इत्यात्मनेपदप्रतिषेधः । रक्षसां
हर्म्येषु गृहेषु । समचारीत् संक्रान्तवान् । '२३३० । अतो लान्तस्य ।७।२।२।
इति वृद्धिः । शीयमानान्धकारेषु अपगच्छत्तमःसु । ८९१२ । शब्द शाने' ।
'२३६२ । शदेः शितः ।१।३।६०।' इति तङ् । २३६० । पा-घा - १७/३१७८ ।' इति
शीयादेशः । अशङ्कितः शङ्कारहितः ॥
५७९ - शत- साहस्रमरक्षं मध्यगं रक्षसां कपिः ॥
-
ददर्श, यं कृतान्तोऽपि म्रियेताऽऽसाद्य भीषणम्, ३७
शतेत्यादि - मध्यगं मध्यप्रकोष्टगतं आरक्षं गोपकं शतसाहस्रं रक्षसां लक्ष-
मात्रं ददर्श विलोकितवान् । शतसहस्रं परिमाणमस्येति प्राग्वतेः संख्यापूर्वपदानां
तदन्तग्रहणमलुकीति वचनात् । १६९२ । शतमानविंशतिक - 1५॥१॥२७॥' इत्या-
दिना अणि । '१७५२ संख्यायाः संवत्सर - 1७१३।१५।' इत्युत्तरपदवृद्धिः । भीषणं
भयानकं आसाद्य प्राप्य । कृतान्तोऽपि यमोऽपि म्रियेत प्राणान् संत्यजेत् ।
'२५३८। म्रियतेर्लुङ्गलिङोश्च । १।३।६१।' इति तङ् । तत्र हि शित इत्यनुवर्तते ॥
५८० - अध्यासिसिषमाणे ऽथ वियन्- मध्यं निशा - करे ॥
कासांचक्रे पुरी साँधैरतीवद्भासिभिः सितैः ॥ ३८ ॥
अधीत्यादि - अथ निशाकरे चन्द्रमास वियन्मध्यं अध्यासिनुमारोढुमिच्छति
सति । '२७३४ । पूर्ववत्सनः ॥३।६२।' इत्यात्मनेपदम् । अस्तेरनुदात्तेवमात्म-
नेपदनिमित्तम् । तेनैव सन्नन्तादपि भवति । अत्र सनि इटि कृते अजादेर्द्वितीय-
१–१४४७१ व्यूहो वृन्देऽप्य॑हिर् वृ॒त्रेऽप्य॑ग्नीन्द्वर्कास् तमोपहाः ॥ २- ३२९॥
हर्म्याsदि धनिनां वासः, प्रासादो देवभूभुजाम् । ३ – '६६
यमुना आता शमनो यमराङ् यमः ।
कारिका । इति सर्वत्र ना० अ० ॥
कृतान्तो
४ – '३२९। सौधोऽत्री राजसदनमुपकायों प