This page has not been fully proofread.

तथा लक्ष्य रूपे कथानके 'ऽशोक वनिका - भङ्गो नामाष्टमः सर्गः – २०१
५७४–यानैः समचरन्ता ऽन्ये कुञ्जराऽश्व-रथाऽऽदिभिः ॥
संप्रायच्छन्त बेन्दीभिर॑न्ये पुष्प - फलं शुभम् ॥ ३२॥
यानेरित्यादि – अन्ये यानैः कुञ्जरादिभिः समचरन्त संचरन्ते स्म । '२७-
२७ । समस्तृतीयायुक्तात् ।१।३।५४॥ इति तङ् । अन्ये बन्दीभिरानीताभिः ।
सम्प्रदाने तृतीया । अशिष्टव्यवहारे तृतीया चतुर्थ्यर्थे भवति इति वचनाद्वन्दी-
भ्य इत्यर्थः । पुष्पफलं शोभनं संप्रायच्छन्त ददति स्म । '२७२६ । दाणश्च सा
चेच्चतुर्थ्यर्थे ॥।३।५५।' इति तङ् । पुष्पफलमिति जातेरेकवद्भावः ॥
 
५७५ - कोपात् काश्चित् प्रियैः प्रत्तर्मुपायंसत नाऽऽसवम् ॥
 

 
प्रेम जिज्ञासमानाभ्यस् ताभ्योऽऽशप्सत कामिनः ३३
 
कोपादित्यादि — काश्चित् स्त्रियः कोपात् अन्यस्त्रीगमनजनितात् । आसवं
मद्यविशेषं नोपायंसत न स्वीकृतवत्यः ।२७३० । विभाषोपयमने ।१।२।१६।' इत्य-
कित्त्वपक्षे रूपम् । '२७२९। उपाद्यमः स्वकरणे ।१।३।५६॥ इति तङ् । पाणिग्रहण-
पूर्वस्य स्वीकरणस्य तत्र स्थितत्वादौपचारिकमत्र स्वीकरणं द्रष्टव्यम् । '२७४२ ।
समुदाभ्यो यमो ग्रन्थे ।१।३।७५ ॥ इति वा तङ् । उदाङ्पूर्वस्य यम आदाना-
र्थत्वात् । अवसरप्राप्तं सूत्रद्वयमुपाहृतं स्यात् । प्रियैः प्रत्तं दत्तम् । '३०७८ । अच
उपसर्गात्तः ।७।४।४७॥ ' प्रेम जिज्ञासमानाभ्यः किमस्मासु प्रेमास्ति वा न वेति
कृतकोपप्रकाशेन ज्ञातुमिच्छन्तीभ्यः । '२७३१ । ज्ञा-श्रु-स्मृ-दृशां सनः ।१।३।५७।'
इति तङ् । ताभ्यो योषियः । कामिनः अशप्सत न मे त्वदन्या प्रियास्तीति
तदीयशरीरस्पर्शनेन शपथं चक्रुः । शप उपालम्भने इत्यात्मनेपदम् । वाचा उपा-
लम्भनं शरीरस्पर्शनम् '५७२ । श्लाघ-हुङ्- ।१।४।३४।' इत्यादिना सम्प्रदानसंज्ञया
चतुर्थी । तासां ज्ञापयितुमिष्यमाणत्वात् ॥
 
५७६ प्रादिक्षत नो नृत्यं, ना ऽशुश्रूषत गायनान् ॥
 
रामं सुस्मूर्षमाणोऽसौ कपिर् विरह-दुःखितम् ॥३४॥
 
C
 
-
 
प्रादिदृक्षतेत्यादि - असौ कपिलायां नो नृत्यं प्रादिक्षत । गायनान्
गायकान् । '२९०८ गस्थकन् ।३।१।१४६ । ' ण्युट् च । नाशुश्रूषत न श्रोतुमिष्ट-
वान् किमिति रामं विरहदुःखितं सुस्मूर्षमाणः स्मर्तुमिच्छन् । सन्नन्तेभ्यः पूर्व-
चदात्मनेपदम् । '२६१५॥ अज्झनगमां सनि ।६।४।१६।' इति दीर्घत्वम् ।
'२४९४ । उदोष्ठ्यपूर्वस्य ।७।१।१०२।' इत्युवम् ॥
 
१–'८२३ । सर्वे स्याद् वाहनं यानं युग्यं पत्रं च धोरणम् ॥२-८६३ । स्युर्
मागधास् तु मगधा बन्दिनस् स्तुतिपाठकाः ॥ ३- '१०३९। मैरेयमासवः सीधुर् मेदको
जगल: समौ ।" इति सर्वत्र ना० अ० ॥