2023-02-15 17:22:19 by ambuda-bot
This page has not been fully proofread.
M
तथा लक्ष्य-रूपे कथानके 'ऽशोक-वनिका भङ्गो' नामाष्टमः सर्गः १९९
५६६ - जले विक्रममाणाया हनूमान् शत-योजनम् ॥
आस्यं प्रविश्य निरयादणूभूया ऽप्रचेतितः ॥ २४ ॥
जल इत्यादि — विक्रममाणायाः पञ्चां विचरन्त्याः । '२७१४ । वेः पादवि-
हरणे ।१।३।४१॥' इति तङ् । जलग्रहणात् गतिविशेषं दर्शयति । आस्यं शतयोजनं
शतं योजनानि यस्य प्रमाणतः । तदणूभूय सूक्ष्मीभूय प्रविश्य निग्गात् निर्गतः ।
उदरं विदार्येत्यर्थात् । अप्रचेतितः अविज्ञातः ॥
,
५६७ - द्रष्टुं प्रक्रममाणो ऽसौ सीताम॑म्भोनिधेस् तटम् ॥
उपास्ता ऽऽकुलं घोरैः क्रममाणैर् निशाचरैः ॥ २५॥
द्रष्टमित्यादि — असौ हनुमान् सीतां द्रष्टुं प्रक्रममाणः आरभमाण: आदिक-
र्मणि यथा भोक्तुं प्रक्रमते इति । उद्धेस्तटमुपास्त गन्तुं प्रारब्धवानित्यर्थः ।
ततश्च प्रोपयोरादिकर्मणि समानार्थत्वात् '२७१५॥ प्रोपाभ्यां समर्थाभ्याम् ॥३१-
४२।' इति तङ् । घोरैः रौद्रैः । निशाचारैराकुलं व्याप्तम् । तटं क्रममाणैः इतस्ततो
गच्छद्भिः । '२७१६। अनुपसर्गाद्वा ।१।३।१३।' इति तङ् ॥
५६८ - आत्मानर्मपजानानः शैश-मात्रो ऽनयद् दिनम् ॥
ज्ञास्ये रात्राविति प्राज्ञः प्रत्यज्ञास्त क्रिया-पेटुः ॥ २६॥
आत्मानमित्यादि —मा कश्चिद्राक्षीदिति तथाविधमात्मानं शरीरमक-
जानान अपहुवानः । '२७१७ । अपह्नवे ज्ञः ।१।२।४३॥ इति तङ् । यो हि शश-
मात्रो भूत्वा स्थितः तेन कथमात्मा लोके नापलपितः स्यात् । अनयद्दिनं अगम-
यद्दिवसम् । ज्ञास्ये रात्राविति प्रत्यज्ञास्त प्रतिज्ञातवानित्यर्थः । ८२७१९। सं-प्रति-
भ्यामनाध्याने ।१।३।४६ ।' इत्यात्मनेपदं लुङो भवति । आध्यानं चोत्कण्ठनम् ।
ज्ञास्ये इत्यकर्मकाञ्चेत्य कर्मक क्रियावचनत्वादात्मनेपदम् । प्राज्ञः क्रियापटुरिनि
बुद्धिकौशलं कर्मकौशलं च दर्शयति ॥
५६९ - संजानानान् परिहरन् रावणाऽनुचरान् बहून् ॥
लङ्कां समाविशद् रात्रौ वदमानोऽरि - दुर्गमाम् ॥२७॥
संजानाना नित्यादि - रावणस्यार्थेषु कार्येषु ये चरन्तीति '२९३० । चरेष्टः
।३।२।१६॥ तान् बहून् संजानानान् चेतयतः परिहरन् । अनाध्याने तङ् । रात्रौ
लङ्कां समाविशत् प्रविष्टवान् । अरिदुर्गमां राक्षसदुर्गमाम् । वदमानो भासमा-
नः । '२७२० । भासनोपसंभाषा-।१।३।४७ ।' इत्यादिना आत्मनेपदम् ॥
५७० - कंचिन् नौपावदिष्टा ऽसौ, केनचिद् व्यवदिष्ट न, ॥
शृण्वन् संप्रवदमानाद् रावणस्य गुणान् जनात्. २८
१–'५२९ । गन्धर्वः शरभो रामः सृमरो गवयः शशः ।' इति ना० अ० ॥ २-(५५६)
श्लोकस्थं टीकनं द्रष्टव्यम् ॥
·