This page has not been fully proofread.

भट्टि - काव्ये - द्वितीयेऽधिकार काण्डे लक्षण रूपे तृतीयो वर्गः,
 
-
 
१९.८
 
:
 
५६२ - योऽपचत्रे वनात् सीतामंधिचक्रे न यं हरिः ॥
विकुर्वाण: स्वरानंद्य वलं तस्य निहन्म्यहम्
 
॥ २० ॥
य इत्यादि-
इ—- यः सीतामपचत्रे अभिबभूव । अवक्षेपणे तङ् । वनादिति
चनमुपगम्य । लयब्लोपे कर्मणि पञ्चमी । हरिरिन्द्रो नाधिचक्रे न प्रसेहे ।
'२७०६ । अधेः प्रसहने ।१।३।३३ ।' इति तङ् । तस्य बलं दशाननस्य सामर्थ्य
कीदृशम् । स्वरान् विकुर्वाणं विविधान् स्वरान् कुर्वाणम् । ८२७०७ । वेः शब्द-
कर्मणः ।१।२।३४।' इति तङ् । तस्य दशाननस्य वलं निहन्मि ॥
 
५६३ - विकुर्वे नगरे तस्य पापस्या ऽद्य रघु-द्विपः ॥
 
-
 
.
 
विनेष्ये वा प्रियान् प्राणानु॑दानेष्येऽथवा यश: २१
विकुर्व इत्यादि- - तस्य रघुद्विषो रामशत्रोः पापस्य नगरे पुर्यां अहमद्य
विकुर्वे विविधं चेष्टे । '२७१८ अकर्मकाञ्च ।१।३।४५॥ इति तङ् । तत्र चिकुर्वाणो
यदि वा प्रियानपि प्राणान् स्वाम्यर्थे विनेष्ये अपनेप्यामि । '२७०९। समानन
--।१।३॥३६।' इत्यादिना व्यये तङ् । यतो धर्मादिषु विनियोगो व्ययः । यशो
वा उदानेपये ऊर्ध्वं नेप्यामि तस्यापकारकरणात् । अत्रोत्सञ्जने तङ् । उत्सञ्जन-
मुक्षेपणम् ॥
 
५६४ विनेध्ये क्रोधर्मथवा क्रममाणोऽरि-संसद ॥
 
इत्युक्त्वा से परास्त तूर्ण सूनुर् नभँस्वतः. ॥२२॥
विनेष्य इत्यादि —- यदि वा क्रोधमात्मनो विनेप्ये अपनेष्यामि । '२७२०
कर्तृस्थे च–।१।३।३७।' इति तङ् । कर्तृस्थस्य क्रोधकर्मणोऽशरीरत्वात् अत्र
व्ययो न संभवतीति । अरिसंसदि शत्रुसभायां क्रममाणः । अप्रतिबन्धेन प्रवर्त-
मानः । '२७१३। वृत्ति-सर्ग-।१।३।३८।' इत्यादिना वृत्तौ तङ् । वृत्तिरप्रतिबन्धः ।
इत्येवमुक्त्वा नभस्वतः सूनुर्वायोस्तनयः खे तूर्णं पराक्रंम्त शीघ्रमुस्सेहे । २७१२॥
उप-पराभ्याम् ।१।३।३९ ।' इत्यनेन सर्गे तङ् । सर्ग उत्साहः ॥
५६५ - परीक्षितुर्मुपास्त राक्षसी तस्य विक्रमम् ॥
 
दिवर्माक्रममाणैव केतु- तारा भय-प्रदा ॥ २३ ॥
परीत्यादि - तस्य हनुमतो विक्रमं शौर्य परीक्षितुं राक्षसी उपाक्रंस्त उत्से हे
पूर्ववत्तङ् । दिवमाक्रममाणेव । यथा केतुः स्वर्भानुः तारा नभस्युद्गच्छति भयं-
करा । '२७१३। आङ उद्गमने ।१।३।४० ।' इति तङ्‌ । तत्र हि ज्योतिरुद्रमन
इत्युक्तम् । केतुतारायाश्च ज्योतिःस्वभावात् ॥
 
१- ( ५४५ ) श्लोकस्थं टिप्पणमालोचनीयम् । २–७२० । समज्या परिषद् गोष्ठी
सभा-समिति-संसद: ॥ ३ – ( ५३९ ) श्लोकस्थं टीकनं विलोक्यताम् । ४- १२६७ । ग्रह-
मेदे ध्वजे केतुः; पार्थिवे तनये सुतः । इति सर्वत्र ना० अ० ।