This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'ऽशोकवनिका भङ्गो' नामाष्टमः सर्गः-
५५० - कृतेनौपकृतं वायोः परिक्रीणानर्मुत्थितम् ॥
 
पित्रा संरक्षितं शऋात् स मैनाकाऽद्रिमैक्षत ॥ ८ ॥
कृतेनेत्यादि–स हनूमान् समुद्रादुत्थितं नैनाकामिक्षत । वायोरुपकृत-
मुपकारं कृतेन प्रत्युपकारेण परिक्रीणानं परिक्रयं विचिन्वन्तम् । '२६८४ । परि-
व्यवेभ्यः क्रियः ।१।३।१८।' इत्यकर्त्रभिप्रायविषयमात्मनेपदम् । पित्रा वायुना
रक्षितं शऋात् । तेन हि पक्षच्छेदकाले महता वेगेन समुद्रं नीत्वा रक्षित इति
श्रूयते ॥
 
५५१ - खं पराजयमानोऽसायु॑न्नत्या पवना॒ऽत्मजम् ॥
 
www
 
१९५
 
जगादाऽद्रिर् 'विजेषीष्ठा मयि विश्रम्य वैरिणम् ॥९॥
खमित्यादि – असावद्भिः उन्नत्या उन्नततया खं पराजयमानोऽभिभवन् पव-
नात्मजं जगाद । मयि विश्रम्य स्थित्वा वैरिणं शत्रु विजेषीष्टाः त्वमभिभूयाः ।
आशिषि लिङ् । उभयत्रापि '२६८५ । वि-पराभ्यां जेः ।१।३।१९।' इति तङ् ॥
५५२ - फलान्यदत्स्व चित्राणि, परिक्रीडस्व सानुषु ॥
 
.
 
साध्व॑नु॒क्रीडमानानि पश्य वृन्दानि पक्षिणाम् ॥१०॥
फलानीत्यादि — चित्राणि नानाविधानि फलानि आदत्स्व गृहाण । '२६८६३
आङोदोऽनास्य विहरणे ।१।३।२०।' इत्यात्मनेपदम् । सानुषु ममैकदेशेषु परिक्रीड-
स्त्र विहर । पक्षिणां च वृन्दानि साधु शोभनं अनुक्रीडमानानि विहरन्ति सन्ति
पश्य । उभयन्त्र '२६८७ । क्रीडोऽनु-सं-परिभ्यश्च ।१।३।२१।' इति तङ् ॥
५५३ - क्षणं भद्राऽवतिष्ठस्व, ततः प्रस्थास्यसे पुनः ॥
 
-
 
न तत् संस्थास्यते कार्य दक्षेणौरीकृतं त्वया ॥ ११ ॥
क्षणमित्यादि - हे भद्र कल्याण ! क्षणमवतिष्ठस्त्र । ततः पश्चात्मस्थास्यसे
यास्यसि । यच्च कार्य करणीयं दक्षेणानलसेन त्वया ऊरीकृतमङ्गीकृतं न च
संस्थास्यते अपि तु निष्पत्स्यत एवेत्यर्थः । सर्वत्र '२६८९३ समव-प्र-विभ्यः स्थः
।१।३।२२।' इति तङ् ॥
 
५५४ – त्वयि नस् तिष्ठते प्रीतिस् तुभ्यं तिष्ठामहे वयम् ॥
उत्तिष्ठमानं मित्राऽर्थे कस् त्वां न बहु मन्यते ॥ १२॥
त्वयीत्यादि —स्वयि विषये अस्माकं प्रीतिरस्ति । तेन संशये अस्माभिरन्यो
निर्णेता नान्वेषणीयः । किन्तु नोऽस्माकं प्रीतिरेव निर्णयं पश्यन्ती त्वयि तिष्ठ-
ते । '२६९० । प्रकाशन-स्थेयाख्ययोश्च ।१।३।२३।' इत्यात्मनेपदम् । विवादपद-
निर्णेता स्थेय उच्यते तुभ्यं तिष्ठामहे वयमिति त्वयि विषये अस्माकं चेतो
 
१ – '२०१६ । दंक्षे तु चतुर-पेशल- पटव: सूत्थान उष्णश् च ॥ २- ११६४। ऊरीकृत
भु॑ररीकृ॒तम॑ङ्गीकृतमा॑श्रुतं प्रतिज्ञातम् । इति सर्वत्र ना० अ० ॥