This page has not been fully proofread.

१९४ भट्टि- काव्ये - द्वितीयेऽविकार-काण्डे लक्षण-रूपे तृतीयो वर्गः,
 
तदेवं हनुमतः समुद्रो हनुमानपि समुद्रस्य धैर्य न व्यतिजिग्ये नाभिवभूव ।
एकवचनस्य प्रत्येकाभिसंबन्धात् । कर्मव्यतीहारे पूर्ववदात्मनेपदम् । '२३३१ ।
सँलिटोर्जेः ।७।३।५७।' इति कुत्वम् । तस्य हनुमतो गतं गमनं प्रचण्डोsपि महान्
प्रभञ्जनो वायुर्न व्यत्यगच्छत् प्राप्तवान् ॥
 
तस्यातिजवेन गच्छतः पथि राक्षसी संप्राप्ता तामसौ व्यापादितवानित्याह-
५४७ - व्यतिघ्नन्तीं व्यतिघ्नन्तां राक्षसी पवनाऽऽत्मजः ॥
 
जघानाssविश्य वदनं निर्यात् भित्त्वौदरं द्रुतम् ॥ ५ ॥
व्यतीत्यादि – हनिप्याम्येनमिति राक्षस्या यो वधकरणावसरः तत्र व्यतिघ्नन्
व्यतिघ्नन्तीं तस्यैनां हनिप्यामीति यो वधकरणावसरः तत्र मन्तीं तदेवमितरे-
तरक्रियाकरणेन व्यतिघ्नन्तीं राक्षसीम् । न गतीत्यादिना हिंसार्थत्वादात्मनेपद्म-
तिषेधः । तां पवनात्मजो हनुमान् जघान । कथं वदनमाविश्य उदरं भिवा
द्रुतं निर्यात् निर्गच्छन् । यातेः शतरि रूपम् ॥
 
५४८ - अन्योन्यं स्म व्यतियुतः
 
शब्दान् शब्दस् तु भीषणान् ॥
उ॒दन्वा॑श् चा॑निोद्भूतो
त्रियमाणा च राक्षसी ॥ ६ ॥
 
-
 

 
अन्योन्यमित्यादि
– अन्योन्यमित्यन्योन्यस्येत्यर्थः । 'कर्मव्यतिहारे सर्व-
नाम्नो द्वे भवतः स्त्रीनपुंसक्योरामभाव इति वक्तव्यम्' । अन्योन्यस्य संब-
न्विभिः शब्दैः उदन्वद्वाक्षस्यौ शब्दान् भीपणानात्मीयान् व्यतियुतः स मिश्रि-
तवन्तौ । ११०६ । यु मिश्रणे' इत्यस्मात् ' २७७८ । लट् स्मे ।३।२।११८' इति
भूते लट् । '२६८२ । इतरेतर - ।१।३।१६।' इत्यादिना कर्मव्यतिहार आत्मनेपद-
प्रतिषेधः । तत्रोदन्वतः शब्दकरणाद्यो भीपणशब्दमिश्रणावसरो भावी तत्र
राक्षसी म्रियमाणा शब्दान् भीषणानुदन्वच्छन्दैर्युयाव । राक्षस्याः शब्दकरणाद्यो
सीषणशब्द मिश्रणावसरो भावी तन्त्रोदन्वाननिलोद्धूतः शब्दान् भीपणान् राक्ष-
सीशब्देर्युयाव ॥
 
५४९ - न्यविक्षत महा-ग्राह-संकुलं मकराऽऽलयम् ॥
 
सैका वहूनां कुर्वाणा नक्राणां स्वाऽऽशितम्भवम् ॥ ७॥
न्यविक्षतेत्यादि – महद्भिग्रहै: संकुलं मकरालयं समुद्रं न्यविक्षत प्रवि-
वती । '२६८३ । नेविंशः ।१।३।१७।' इत्यात्मनेपदम् '२३३६। शल इगुपधा-
दुनिटः क्सः ।३।१।४५।' बहूनां नक्राणामेकापि सती स्वाशितम्भवं सुष्टु तृप्तिं
कुर्वाणा । '२८६२ । आशिते भुवः ।३।२।४५॥' इति भावे खच् ॥
 
१ '२७५ । ग्राहोऽवहारो, नक्रस् तु कुम्मीरः ।' इति ना० भ० ।