This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'शोकवनिका भङ्गो' नामाष्टमः सर्गः – १९३
शयितवन्तः । डिवात्तङ् । '२४४२ । शीडो रु १७१११६।' । '२४४१॥ शीड:
सार्वधातुके गुणः ।७।४॥२१॥ ॥
 
५४४ - अभायत यथाऽर्केण सुप्रातेन शरन-मुखे, ॥
 
1
 
गम्यमानं न तेनाssसीदंगतं कामता पुरः ॥ २ ॥
अभायतेत्यादि-
इ— यथा अर्केण सुप्रातेन सुप्रभातेन नीहाराद्यभावात् ।
शोभनं प्रातरनेनेति । '८६०१ सुप्रात-सुव-।५।४।१२०॥ इति समासान्तनिपात-
नम् । शरन्मुखे शरद्वारम्भे । अभायत दीप्यते स्म । '२६७९ । भाव कर्मणोः
।१।३।१३।' इति भावे तङ् । तद्वत्तेनाभायत । पुरोऽग्रतो यदर्केण गम्यमानमव-
भ्यमानं वत्यर्थात् कर्मण्यात्मनेपदम् । तेन हनूमता क्रामता गच्छता ।
शिति क्रम इति दीर्घत्वम् । नागतमासीत् अपि तु सर्वमेव गतमिति ॥
 
५४५ - वियति व्यत्यतन्वातां मूर्ती हरि-पयोनिधी, ॥
 
व्यत्यैतां चौत्तमं मार्गमर्केन्द्रेन्दु-निषेवितम् ॥ ३॥
 
वियतीत्यादि — हरिपयोनिधी हनूमत्समुद्रौ मूर्ती स्वदेहौ वियत्याकाशे
व्यत्यतन्वातां व्यतिविस्तारितवन्तौ । तनोतेर्लङ् । '२६८० । कर्तरि कर्मव्यतिहारे
।१।३।१४।' इत्यात्मनेपदम् । उत्तमं च मार्ग अर्केन्देन्दुनिषेवितं व्यत्यैतां व्यतिग-
तवन्तौ । इणः परस्य लङ: कर्मव्यतिहार इत्यात्मनेपदं प्राप्तं ' २६८३ । न गति-
हिंसार्थेभ्यः ।१।३।१५।' इति गत्यर्थत्वात् प्रतिषिद्धं, तेन तसस्तामादेशः । तत्र
हरेर्गच्छतः पुरतो यस्मिन्वियत्प्रदेशे स्वमूर्ति विस्तारितुमवसरो भविता, तन
पयोनिधिरूर्मिभिः स्वमूर्ति वितस्तार । पयोनिधेश्च वेला तटं गच्छतो यत्र स्वमू-
तिविस्तारावसरो भावी तत्र हरिः स्वमूर्ति वितस्तार । यथा पयोनिधेर्य मार्ग
गन्तुमवसरो भविता, हरिरुत्पत्य तं मार्ग गन्तुमैच्छत् । यं च हरेर्मार्ग गन्तुमव-
सरो भविता तं मार्ग पयोनिघिरभ्रंलिहैरूर्मिभिरैच्छत् । यत्र यत्क्रियावसरे क्रियां
करोति स तत्र तत्क्रयाकारीत्युपचर्यते । यथा देवदत्तसाध्यां क्रियां यज्ञदत्तः
कुर्वन् तत्कारीत्युच्यते । ततश्चेतरेणेतरसंबन्धिन्याः क्रियायाः करणात् अन्यतर-
संबन्धिन्याश्चेत् सम्भवति कर्मव्यतिहारः ॥
 
५४६ - व्यतिजिग्ये समुद्रोऽपि न धैर्य तस्य गच्छतः ॥
 
व्यत्यगच्छन् न च गतं प्रचण्डोऽपि प्रभञ्जनः ॥ ४ ॥
व्यतीत्यादि - तस्य हरेर्गच्छतः स्वदेहस्याल्पतां कर्तुं योऽवसरो भावी तत्र
समुद्रो नातिशय धैर्यं कृतवान् । तेन तस्य धैर्य न जितं, तदानीं तस्योद्धुतकल्लो-
लत्वात् । अपिशब्दाच्च हनूमानपि समुद्रस्य शान्तत्वं कर्तुं योऽवसरो भावी तन्त्र
नातिशयधैर्यं कृतवान् । तेन तस्य धैर्यं वा न जितं, तदानीं तस्य विपुलकायत्वात् ।
 
१–॰१३८३ । यमाऽनिलेन्द्र-चन्द्राऽर्क-विष्णु-सिहांऽशु- वाजियु । शुकाऽहि-कपि- मेकेषु हरिर्
ना कपिले त्रिषु ।' इति नानार्थेऽमरः ।
भ० का० १७