2023-02-15 17:22:17 by ambuda-bot
This page has not been fully proofread.
१९२ भट्टि काव्ये - द्वितीयेऽधिकार काण्डे लक्षण रूपे तृतीयो वर्गः,
पधादिकारोपधाञ्च रलतालादेर्धातोः परौ क्त्वासनौ वा न कितौ भवत
इति सूत्रार्थः ॥
५४२ - विलोक्य सलिलो॒च्चयान॑धि-
समुद्रम॑लिहान्
भ्रमन्- मकर - भीषणं समधिगम्य चा ऽधः पयः ॥
गमाऽऽगम-सहं द्रुतं कपि वृषा: परिप्रेषयन्
गजेन्द्र गुरु - विक्रमं तरु-मृगोत्तमं मारुतिम् ॥१०८ ॥
विलोक्येत्यादि-कपिवृषाः कपिमुख्या: मारुतिं हनुमन्तं द्रुतं परिप्रेषयन्
व्यसर्जयन् । परिप्रपूर्वात् '१२०२। इप गतौ इत्यस्मात् हेतुमण्ण्यन्तात् लङि
रूपम् । किं कृत्वेत्याह । विलोक्य सलिलोच्चयान् सलिलोमन् । ऊर्ध्वं चीयत
इति '३२३१ । एरच् ।३।३।५६।' अघिसमुद्रं समुद्रस्योपरि । अभ्रंलिहान् दूर-
मुच्छ्रितान् । अधश्च पयः समधिगम्य ज्ञात्वा । कीदृशम् । भ्रमद्भिर्मकपण
भयानकम् । भीषयतीति नन्द्यादित्वाल्ल्युः । गमागमसहं गमनागमनयोग्यं मा-
रुतिम् । गजेन्द्रस्येव गुरुर्विक्रमो यस्य । तरुमृगेषु वानरेपूत्तममिति । सप्तमीति
योगविभागात् सः ॥
॥ इति ङिवाधिकारः ॥
इति श्री जयमङ्गलाऽऽख्यया व्य व्यया समलंकृते श्री-भट्टिकाव्ये -
द्वितीयेऽधिकार-काण्डे लक्षण-रूपे द्वितीयः परिच्छेदः ( वर्गः ),
तथा लक्ष्य रूपे कथानके सीताऽन्वेषणं नाम सप्तमः
सर्गः पर्यवसितः ।
अष्टमः सर्गः ।
आत्मनेपदमधिकृत्याह--
५४३ - अगाधत ततो व्योम हनूमानुरु-विग्रहः, 11
अत्यशेरत तद्-वेगं न सुपर्णाऽर्क - मारुताः ॥ १ ॥
अगाधतेति – ततो विसर्जनान्तरं हनुमान् समुद्रलङ्घनाय व्योमाकाशम-
गाधत प्रस्थितवान् । '४ । गाट प्रतिष्ठा लिप्सयोः ।' इत्यस्माल्लङ् । '२१५७ / अनुदा-
तङितः—।१।३।१२।' इत्यनुदात्तेत्त्वादात्मनेपदम् । उरुविग्रहः कामरूपिश्वात् तदा-
नीमुत्पादितविपुलकायः । तस्य चोत्पततो वेगं गरुडादित्यपवनाः नात्यशेरत नाति-
१ – 'पद्येऽस्मिन् पृथ्वी वृत्तम् । तलक्षणं तु - ९४ । ज-सौ ज-स-य-ला वसुतिश् च
पृथ्वी गुरुः ।' इति वृत्तरलाकरे भट्टकेदार आइ । २ – १४२९ । शुक्रले मूषके श्रेष्टे सुकृते
वृषमे वृषः ।
३ – '३३ । 'गरुत्मान् गरुडस, तार्क्ष्यो वैनतेयः खगेश्वरः ॥ ३४॥ नागान्तको
विष्णु-रथः सुपर्णः पन्नगाऽशनः । इति सर्वत्र आ० अ० ॥